ऋग्वेद - मण्डल 10/ सूक्त 101/ मन्त्र 1
ऋषिः - बुधः सौम्यः
देवता - विश्वे देवा ऋत्विजो वा
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
उद्बु॑ध्यध्वं॒ सम॑नसः सखाय॒: सम॒ग्निमि॑न्ध्वं ब॒हव॒: सनी॑ळाः । द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीमिन्द्रा॑व॒तोऽव॑से॒ नि ह्व॑ये वः ॥
स्वर सहित पद पाठउत् । बु॒ध्य॒ध्व॒म् । सऽम॑नसः । स॒खा॒यः॒ । सम् । अ॒ग्निम् । इ॒न्ध्व॒म् । ब॒हवः॑ । सऽनी॑ळाः । द॒धि॒ऽक्राम् । अ॒ग्निम् । उ॒षस॑म् । च॒ । दे॒वीम् । इ॒न्द्र॒ऽव॒तः । अव॑से । नि । ह्व॒ये॒ । वः॒ ॥
स्वर रहित मन्त्र
उद्बुध्यध्वं समनसः सखाय: समग्निमिन्ध्वं बहव: सनीळाः । दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये वः ॥
स्वर रहित पद पाठउत् । बुध्यध्वम् । सऽमनसः । सखायः । सम् । अग्निम् । इन्ध्वम् । बहवः । सऽनीळाः । दधिऽक्राम् । अग्निम् । उषसम् । च । देवीम् । इन्द्रऽवतः । अवसे । नि । ह्वये । वः ॥ १०.१०१.१
ऋग्वेद - मण्डल » 10; सूक्त » 101; मन्त्र » 1
अष्टक » 8; अध्याय » 5; वर्ग » 18; मन्त्र » 1
अष्टक » 8; अध्याय » 5; वर्ग » 18; मन्त्र » 1
विषयः - अस्मिन् सूक्ते विद्वद्भिः कलायन्त्रनिर्माणं कर्तव्यं तथा कृषिकार्याय भूमेर्विलेखनं सेचनाय च जलाशयो निर्मातव्यस्तत्र जलपात्रयुक्तचक्रं च योजितव्यमित्येवमादयो विषयाः सन्ति।
पदार्थः -
(समनसः) समानमनस्काः (सनीकाः) समानाश्रयवन्तः (सखायः) समानख्यानाः (बहवः) बहुसंख्यकाः सन्तः (उत् बुध्यध्वम्) उद्बुद्धाः भवत (अग्निं सम् इन्ध्वम्) अग्रणेतारं परमात्मानं सम्यक् स्वात्मनि प्रकाशयत (दधिक्राम्-अग्निम्-उषसं देवीं वः-इन्द्रावतः) मेधान् दधत् धारयन् क्रामति गच्छति यस्तं मध्यस्थानकं वायुम्-अग्निं पृथिवीस्थानकं तथोषोदेवीं युष्मान् परमात्ववतः परमात्माश्रितान् (अवसे निह्वये) रक्षणाय नियमेन स्वीकरोमि “ह्वये स्वीकरोमि” [ऋ० १।६४।२६ दयानन्दः] ॥१॥