ऋग्वेद - मण्डल 10/ सूक्त 101/ मन्त्र 3
ऋषिः - बुधः सौम्यः
देवता - विश्वे देवा ऋत्विजो वा
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म् । गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्य॑: प॒क्वमेया॑त् ॥
स्वर सहित पद पाठयु॒नक्त॑ । सीरा॑ । वि । यु॒गा । त॒नु॒ध्व॒म् । कृ॒ते । योनौ॑ । व॒प॒त॒ । इ॒ह । बीज॑म् । गि॒रा । च॒ । श्रु॒ष्टिः । सऽभ॑राः । अस॑त् । नः॒ । नेदी॑यः । इत् । सृ॒ण्यः॑ । प॒क्वम् । आ । इ॒या॒त् ॥
स्वर रहित मन्त्र
युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् । गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्य: पक्वमेयात् ॥
स्वर रहित पद पाठयुनक्त । सीरा । वि । युगा । तनुध्वम् । कृते । योनौ । वपत । इह । बीजम् । गिरा । च । श्रुष्टिः । सऽभराः । असत् । नः । नेदीयः । इत् । सृण्यः । पक्वम् । आ । इयात् ॥ १०.१०१.३
ऋग्वेद - मण्डल » 10; सूक्त » 101; मन्त्र » 3
अष्टक » 8; अध्याय » 5; वर्ग » 18; मन्त्र » 3
अष्टक » 8; अध्याय » 5; वर्ग » 18; मन्त्र » 3
पदार्थः -
(सीरा युनक्त) सीराणि हलादीनि “सीरं कृषिसाधनं हलादिकम्” [यजु० १८।७ दयानन्दः] युङ्ध्वमनडुद्भिः सह (युगा वि तनुध्वम्) योक्त्राणि बलिवर्देषु वितानयत (कृते योनौ) सम्पन्नायां छिन्नायां योनौ क्षेत्रभक्त्यां सीतायाम् (इह बीजं वपत) अत्र बीजं निधापयत (च) अथ च (गिरा-श्रुष्टिः) अन्नस्य “अन्नं गिरः” [श० ८।५।३।५] “विराजः श्रुष्टि” [अथर्व० ३।१७।२] “अन्नं वै विराट्” [श० ७।५।३।१९] अन्नमाला-अन्नगुम्फा वा “अन्नं वै श्रुष्टिः” [श० ७।२।२।५] (सभरा-असत्) भरेण पोषणधर्मेण सह युक्ता भवेत् (नः-सृण्यः) अस्माकं दात्री (इत्-पक्वं नेदीयः-एयात्) खलु पक्वं स्तम्भं प्रति कर्त्तनाय समीपं गच्छेत् ॥३॥