Loading...
ऋग्वेद मण्डल - 10 के सूक्त 101 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 101/ मन्त्र 2
    ऋषिः - बुधः सौम्यः देवता - विश्वे देवा ऋत्विजो वा छन्दः - त्रिष्टुप् स्वरः - धैवतः

    म॒न्द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वम् । इष्कृ॑णुध्व॒मायु॒धारं॑ कृणुध्वं॒ प्राञ्चं॑ य॒ज्ञं प्र ण॑यता सखायः ॥

    स्वर सहित पद पाठ

    म॒न्द्रा । कृ॒णु॒ध्व॒म् । धियः॑ । आ । त॒नु॒ध्व॒म् । नाव॑म् । अ॒रि॒त्र॒ऽपर॑णीम् । कृ॒णु॒ध्व॒म् । इष्कृ॑णुध्वम् । आयु॒धा । अर॑म् । कृ॒णु॒ध्व॒म् । प्राञ्च॑म् । य॒ज्ञम् । प्र । न॒य॒त॒ । स॒खा॒यः॒ ॥


    स्वर रहित मन्त्र

    मन्द्रा कृणुध्वं धिय आ तनुध्वं नावमरित्रपरणीं कृणुध्वम् । इष्कृणुध्वमायुधारं कृणुध्वं प्राञ्चं यज्ञं प्र णयता सखायः ॥

    स्वर रहित पद पाठ

    मन्द्रा । कृणुध्वम् । धियः । आ । तनुध्वम् । नावम् । अरित्रऽपरणीम् । कृणुध्वम् । इष्कृणुध्वम् । आयुधा । अरम् । कृणुध्वम् । प्राञ्चम् । यज्ञम् । प्र । नयत । सखायः ॥ १०.१०१.२

    ऋग्वेद - मण्डल » 10; सूक्त » 101; मन्त्र » 2
    अष्टक » 8; अध्याय » 5; वर्ग » 18; मन्त्र » 2

    पदार्थः -
    (सखायः) हे समानज्ञानप्रकाशकाः ! (मन्द्रा कृणुध्वम्) यूयं मन्द्राणि स्तुतिवचनानि “मदि-स्तुतिमोदमद” [भ्वादिः] ततो रक् औणादिकः-अध्यात्मयज्ञे कुरुत (धियः-आ तनुध्वम्) कर्माणि “धीः कर्मनाम” [निघ० २।१] विस्तारयत शिल्पशालायाम् (अरित्रपरणीं नावं कृणुध्वम्) अरित्रैः पारयित्रीं नौकां कुरुत, पारे व्यापारकायार्थं नद्यां (आयुधा-इष्कृणुध्वम्) शस्त्राणि निष्कृणुध्वं संस्कुरुत तीक्ष्णं कुरुत “संस्कर्त्तारं निष्कर्त्तारं संसाधकं छान्दसो नकारलोपः” [यजु० १२।११० दयानन्दः] ‘निष्कृण्वाना आयुधानीव-निरित्येष समित्येतस्य स्थाने’ [निरु० १२।७] सङ्ग्रामप्रसङ्गे (प्राञ्चम्-अरं कृणुध्वम्) स्वात्मानं सम्मुखं कुरुत समाजसेवायां (यज्ञं प्रनयत) परोपकाराय प्रवर्धयत ॥२॥

    इस भाष्य को एडिट करें
    Top