ऋग्वेद - मण्डल 10/ सूक्त 105/ मन्त्र 2
ऋषिः - कौत्सः सुमित्रो दुर्मित्रो वा
देवता - इन्द्र:
छन्दः - स्वराडार्च्यनुष्टुप्
स्वरः - गान्धारः
हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्व॒न्तानु॒ शेपा॑ । उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ॥
स्वर सहित पद पाठहरी॒ इति॑ । यस्य॑ । सु॒ऽयुजा॑ । विऽव्र॑ता । वेः । अर्व॑न्ता । अनु॑ । शेपा॑ । उ॒भा । र॒जी इति॑ । न । के॒शिना॑ । पतिः॑ । द॒न् ॥
स्वर रहित मन्त्र
हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा । उभा रजी न केशिना पतिर्दन् ॥
स्वर रहित पद पाठहरी इति । यस्य । सुऽयुजा । विऽव्रता । वेः । अर्वन्ता । अनु । शेपा । उभा । रजी इति । न । केशिना । पतिः । दन् ॥ १०.१०५.२
ऋग्वेद - मण्डल » 10; सूक्त » 105; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 26; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 26; मन्त्र » 2
पदार्थः -
(यस्य वेः) यस्य स्तुतिवचनं कामयमानस्य परमात्मनः (सुयुजा विव्रता-अर्वन्ता शेपा हरी) सुष्ठु नियोज्यो विविधकर्मसाधकौ प्रापणशीलौ स्तोतुः स्पर्शकौ “शेपः शपतेः स्पृशतिकर्मणः” [निरु० ३।२१] दुःखहारिणौ कृपाप्रसादौ (उभा रजी केशिना) द्वौ रञ्जकौ सूर्याचन्द्रमसाविव स्तः सः (पतिः-दन्) विश्वपतिः परमात्मा स्तोतुरभीष्टं दर्शनं सुखं वा प्रयच्छन् (अनु) अनुवर्तते ॥२॥