ऋग्वेद - मण्डल 10/ सूक्त 105/ मन्त्र 3
ऋषिः - कौत्सः सुमित्रो दुर्मित्रो वा
देवता - इन्द्र:
छन्दः - भुरिगुष्णिक्
स्वरः - ऋषभः
अप॒ योरिन्द्र॒: पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् । शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ॥
स्वर सहित पद पाठअप॑ । योः । इन्द्रः॑ । पाप॑जे । आ । मर्तः॑ । न । श॒श्र॒मा॒णः । बि॒भी॒वान् । शु॒भे । यत् । यु॒यु॒जे । तवि॑षीऽवान् ॥
स्वर रहित मन्त्र
अप योरिन्द्र: पापज आ मर्तो न शश्रमाणो बिभीवान् । शुभे यद्युयुजे तविषीवान् ॥
स्वर रहित पद पाठअप । योः । इन्द्रः । पापजे । आ । मर्तः । न । शश्रमाणः । बिभीवान् । शुभे । यत् । युयुजे । तविषीऽवान् ॥ १०.१०५.३
ऋग्वेद - मण्डल » 10; सूक्त » 105; मन्त्र » 3
अष्टक » 8; अध्याय » 5; वर्ग » 26; मन्त्र » 3
अष्टक » 8; अध्याय » 5; वर्ग » 26; मन्त्र » 3
पदार्थः -
(इन्द्रः) ऐश्वर्यवान् (पापजे) पापात् कर्मणो यो जातः प्रसिद्धः पापीजनस्तन्निमित्तम् “निमित्तसप्तमी” (आशश्रमाणः-मर्त्तः-न) समन्ताच्छ्राम्यन् क्रुध्यन् जन इव (विभीवान्) विशेषेण भीतिमान्-भीतेः कारणं भवतीत्यर्थः (अपयोः) अपयोक्ताऽपकारको भवति युजधातोर्डसि प्रत्यय औणादिको बाहुलकात् (यत्-शुभे तविषीवान् युयुजे) यतः शुभकर्मकर्त्रे बलवान्-बलं प्रयच्छन् सन् युङ्क्ते तेन सह योगं करोति ॥३॥