ऋग्वेद - मण्डल 10/ सूक्त 105/ मन्त्र 8
ऋषिः - कौत्सः सुमित्रो दुर्मित्रो वा
देवता - इन्द्र:
छन्दः - विराडुष्निक्
स्वरः - ऋषभः
अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृच॑: । नाब्र॑ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ॥
स्वर सहित पद पाठअव॑ । नः॒ । वृ॒जि॒ना । शि॒शी॒हि॒ । ऋ॒चा । व॒ने॒म॒ । अ॒नृचः॑ । न । अब्र॑ह्मा । य॒ज्ञः । ऋध॑क् । जोष॑ति । त्वे इति॑ ॥
स्वर रहित मन्त्र
अव नो वृजिना शिशीह्यृचा वनेमानृच: । नाब्रह्मा यज्ञ ऋधग्जोषति त्वे ॥
स्वर रहित पद पाठअव । नः । वृजिना । शिशीहि । ऋचा । वनेम । अनृचः । न । अब्रह्मा । यज्ञः । ऋधक् । जोषति । त्वे इति ॥ १०.१०५.८
ऋग्वेद - मण्डल » 10; सूक्त » 105; मन्त्र » 8
अष्टक » 8; अध्याय » 5; वर्ग » 27; मन्त्र » 3
अष्टक » 8; अध्याय » 5; वर्ग » 27; मन्त्र » 3
पदार्थः -
(नः) अस्माकं (वृजिना) वृजिनानि वर्ज्यानि पापानि (अव शिशीहि) अवक्षीणानि तत् कुरु “शिशीते कृशं करोति” शो तनूकरणे लोटि विकरणव्यत्ययेन श्यनः स्थाने श्लुः” [ऋ० १।३६।१६ दयानन्दः] (अनृचः-ऋचा वनेम) ऋग्रहितान् ऋचा-ऋगुपदेशेन सम्भजेम, (अब्रह्मा यज्ञः) ब्रह्मरहितो मन्त्ररहितैः (ऋधक्) केवलो यज्ञः (त्वे) त्वयि (न जोषति) न रोचते “व्यत्ययेन परस्मैपदम्” ॥८॥