ऋग्वेद - मण्डल 10/ सूक्त 105/ मन्त्र 7
ऋषिः - कौत्सः सुमित्रो दुर्मित्रो वा
देवता - इन्द्र:
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
वज्रं॒ यश्च॒क्रे सु॒हना॑य॒ दस्य॑वे हिरीम॒शो हिरी॑मान् । अरु॑तहनु॒रद्भु॑तं॒ न रज॑: ॥
स्वर सहित पद पाठवज्र॑म् । यः । च॒क्रे । सु॒ऽहना॑य । दस्य॑वे । हि॒री॒म॒शः । हरी॑मान् । अरु॑तऽहनुः । अद्भु॑तम् । न । रजः॑ ॥
स्वर रहित मन्त्र
वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् । अरुतहनुरद्भुतं न रज: ॥
स्वर रहित पद पाठवज्रम् । यः । चक्रे । सुऽहनाय । दस्यवे । हिरीमशः । हरीमान् । अरुतऽहनुः । अद्भुतम् । न । रजः ॥ १०.१०५.७
ऋग्वेद - मण्डल » 10; सूक्त » 105; मन्त्र » 7
अष्टक » 8; अध्याय » 5; वर्ग » 27; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 27; मन्त्र » 2
पदार्थः -
(यः हिरीमशः-हिरीमान्) यः खलु दुःखहरणशीलगुणवान् हिरण्यवान् तेजस्वी “हिरिश्मश्रुः-हिरण्यमिव…” [ऋ० ५।७।७ दयानन्दः] “हृधातोः-ईमन्-प्रत्ययः, ऋकारस्य इकारो रपर-आदेशः पुनर्मत्वर्थीयः शः प्रत्ययो मतुप् च” (सुहनाय दस्यवे) सुगमतया हन्तुं योग्याय नाशकारिणे दुष्टाय (वज्रं चक्रे) शस्त्रं क्षिपति (अरुत हनुः) अरुजत हननसाधनः-अबाध्यहनन-साधनमस्य तथाभूतः “रुतस्य रुग्णस्य पृषोदरादित्वाज्जकारलोपः” [यजु० १६।४९ दयानन्दः] “हन्तुर्हन्तेः” [निरु० ६।१७] (अद्भुतं न रजः) अद्भुतमन्तरिक्ष-आकाश इवाबाध्यः स परमात्मा ॥७॥