ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 6
उदी॑रय पि॒तरा॑ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति । विव॑क्ति॒ वह्नि॑: स्वप॒स्यते॑ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ॥
स्वर सहित पद पाठउत् । ई॒र॒य॒ । पि॒तरा॑ । जा॒रः । आ । भग॑म् । इय॑क्षति । ह॒र्य॒तः । हृ॒त्तः । इ॒ष्य॒ति॒ । विव॑क्ति । वह्निः॑ । सु॒ऽअ॒प॒स्यते॑ । म॒खः । त॒वि॒ष्यते॑ । असु॑रः । वेप॑ते । म॒ती ॥
स्वर रहित मन्त्र
उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति । विवक्ति वह्नि: स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥
स्वर रहित पद पाठउत् । ईरय । पितरा । जारः । आ । भगम् । इयक्षति । हर्यतः । हृत्तः । इष्यति । विवक्ति । वह्निः । सुऽअपस्यते । मखः । तविष्यते । असुरः । वेपते । मती ॥ १०.११.६
ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 6
अष्टक » 7; अध्याय » 6; वर्ग » 10; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 10; मन्त्र » 1
पदार्थः -
(भगम्-उदीरय) अग्ने ज्ञानप्रकाशक परमात्मन् ! भगमध्यात्मयज्ञं राजसूययज्ञम् “यज्ञो वै भगः” [श०६।१।१।१९] ऊर्ध्वं नय-समृद्धं कुरु (जारः-आ पितरा) यथा जारः-रात्रेर्जरयिता सूर्यः-द्यावापृथिव्यौ स्वतेजसा-आपूरयति (हर्यतः-हृत्तः-इयक्षति-इष्यति) एष आस्तिकमनस्वी राजा वा हर्तुं योग्यं हर्यं मनस्तस्माद् यष्टुमिच्छति, हृत्तो हृदयाच्चेच्छति (वह्निः) अध्यात्मभावं वहमानः-आस्तिकमनस्वी, राष्ट्रं प्रजां वा वहमानो राजा (विवक्ति) त्वां परमात्मानं नियमेन प्रार्थयते (स्वपस्यते) सम्यक् कर्माचरति (मखः-तविष्यते) यज्ञोऽध्यात्मयज्ञो राजसूययज्ञो वा समृद्ध्यते “यज्ञो वै मखः” [तै०३।२।८।३] (मती-असुरः-वेपते) ततः मत्या विमत्या-आसुरः दुर्विचारोऽनृतभावः दुर्विचारवान् दुष्टो जनो वा “अनृतेनासुरान्” [का०९।११] वेपते-कम्पते-पलायते ॥६॥