ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 5
सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः । विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यं१॒॑ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ॥
स्वर सहित पद पाठसदा॑ । अ॒सि॒ । र॒ण्वः । यव॑साऽइव । पुष्य॑ते । होत्रा॑भिः । अ॒ग्ने॒ । मनु॑षः । सु॒ऽअ॒ध्व॒रः । विप्र॑स्य । वा॒ । यत् । श॒श॒मा॒नः । उ॒क्थ्य॑म् । वाज॑म् । स॒स॒ऽवान् । उ॒प॒ऽयासि॑ । भूरि॑ऽभिः ॥
स्वर रहित मन्त्र
सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः । विप्रस्य वा यच्छशमान उक्थ्यं१ वाजं ससवाँ उपयासि भूरिभिः ॥
स्वर रहित पद पाठसदा । असि । रण्वः । यवसाऽइव । पुष्यते । होत्राभिः । अग्ने । मनुषः । सुऽअध्वरः । विप्रस्य । वा । यत् । शशमानः । उक्थ्यम् । वाजम् । ससऽवान् । उपऽयासि । भूरिऽभिः ॥ १०.११.५
ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 5
अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 5
अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 5
पदार्थः -
(अग्ने) हे ज्ञानप्रकाशक परमात्मन् ! (यवसा इव पुष्यते सदा रण्वः-असि) स्वात्मनः पोषणं कुर्वते पशवे यथा यवसानि भक्ष्यतृणानि रमणीयानि रोचकानि सन्ति तथा त्वं रण्वो रमणीयोऽसि खल्वस्मभ्यम्, यतः (होत्राभिः-मनुषः-स्वध्वरः) वाग्भिः-वेदवाग्भिरुपदेशवचनैः “होत्रा वाङ्नाम” [निघ०१।११] मनुष्यस्य राजजनस्य “मनुषः मनुष्यस्य” [निरु०८।५] शोभनो राजसूययज्ञो सिध्यति तथाभूतोऽसि (विप्रस्य वा यत्-उक्थ्यं शशमानः) स्वां स्वात्मसमर्पणेन विशिष्टतया पृणयितुश्च “वा समुच्चयार्थः” [निरु०१।५] यत्राऽस्तिकमनस्वतः स्तुतिवचनं प्रशंसमानः “शशमानः शंसमानः [निरु०६।८] अभिप्रीयमाणः स्वीकुर्वन् (वाजं ससवान्) अमृतभोगं सम्भावयन् “अमृतोऽन्नं वै वाजः” [जै०२।१९३] (भूरिभिः-उपयासि) बहुभिः कृपाभावै रक्षाभिर्वा तमुपगच्छसि-प्राप्नोषि ॥५॥