ऋग्वेद - मण्डल 10/ सूक्त 118/ मन्त्र 4
घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः । रोच॑मानो वि॒भाव॑सुः ॥
स्वर सहित पद पाठघृ॒तेन॑ । अ॒ग्निः । सम् । अ॒ज्य॒ते॒ । मधु॑ऽप्रतीकः । आऽहु॑तः । रोच॑मानः । वि॒भाऽव॑सुः ॥
स्वर रहित मन्त्र
घृतेनाग्निः समज्यते मधुप्रतीक आहुतः । रोचमानो विभावसुः ॥
स्वर रहित पद पाठघृतेन । अग्निः । सम् । अज्यते । मधुऽप्रतीकः । आऽहुतः । रोचमानः । विभाऽवसुः ॥ १०.११८.४
ऋग्वेद - मण्डल » 10; सूक्त » 118; मन्त्र » 4
अष्टक » 8; अध्याय » 6; वर्ग » 24; मन्त्र » 4
अष्टक » 8; अध्याय » 6; वर्ग » 24; मन्त्र » 4
पदार्थः -
(विभावसुः-रोचमानः) विशिष्टदीप्त्या वासयिता प्रकाशमानः (अग्निः-घृतेन सम् अज्यते) अग्रणेता परमात्मा देवकर्मणा मुमुक्षुचर्येण साक्षाद् भवति यद्वा यज्ञाग्निः घृतेन ज्वलितो भवति (आहुतः-मधुप्रतीकः) आमन्त्रितः सन् मधुसुखप्रतीतिनिमित्तः यद्वा समन्तात् होमे हुतः सन् मधुगन्धप्रत्यायको भवति ॥४॥