ऋग्वेद - मण्डल 10/ सूक्त 118/ मन्त्र 5
ऋषिः - उरुक्षय आमहीयवः
देवता - अग्नी रक्षोहा
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
जर॑माण॒: समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन । तं त्वा॑ हवन्त॒ मर्त्या॑: ॥
स्वर सहित पद पाठजर॑माणः । सम् । इ॒ध्य॒से॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ । तम् । त्वा॒ । ह॒व॒न्त॒ । मर्त्याः॑ ॥
स्वर रहित मन्त्र
जरमाण: समिध्यसे देवेभ्यो हव्यवाहन । तं त्वा हवन्त मर्त्या: ॥
स्वर रहित पद पाठजरमाणः । सम् । इध्यसे । देवेभ्यः । हव्यऽवाहन । तम् । त्वा । हवन्त । मर्त्याः ॥ १०.११८.५
ऋग्वेद - मण्डल » 10; सूक्त » 118; मन्त्र » 5
अष्टक » 8; अध्याय » 6; वर्ग » 24; मन्त्र » 5
अष्टक » 8; अध्याय » 6; वर्ग » 24; मन्त्र » 5
पदार्थः -
(हव्यवाहन) हे हव्यानि आदातव्यानि वस्तूनि वहति प्रापयति तत्सम्बुद्धौ परमात्मन्, यद्वा होतव्यं वहतुमर्ह ! अग्ने ! (जरमाणः) स्तूयमानः सन् प्रशस्यमानः सन् वा (देवेभ्यः सम् इध्यसे) मुमुक्षुभ्यः सम्यक् प्रकाशितो भवसि भौतिकदेवेभ्यो ज्वलितो भवसि वा (तं त्वा मर्त्याः-हवन्त) तं त्वां मनुष्याः प्रार्थयन्ते यद्वा होमे-उपयुञ्जन्ति ॥५॥