ऋग्वेद - मण्डल 10/ सूक्त 118/ मन्त्र 8
ऋषिः - उरुक्षय आमहीयवः
देवता - अग्नी रक्षोहा
छन्दः - विराड्गायत्री
स्वरः - षड्जः
स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्य॑: । उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥
स्वर सहित पद पाठसः । त्वम् । अ॒ग्ने॒ । प्रती॑केन । प्रति॑ । ओ॒ष॒ । या॒तु॒ऽधा॒न्यः॑ । उ॒रु॒ऽक्षये॑षु । दीद्य॑त् ॥
स्वर रहित मन्त्र
स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्य: । उरुक्षयेषु दीद्यत् ॥
स्वर रहित पद पाठसः । त्वम् । अग्ने । प्रतीकेन । प्रति । ओष । यातुऽधान्यः । उरुऽक्षयेषु । दीद्यत् ॥ १०.११८.८
ऋग्वेद - मण्डल » 10; सूक्त » 118; मन्त्र » 8
अष्टक » 8; अध्याय » 6; वर्ग » 25; मन्त्र » 3
अष्टक » 8; अध्याय » 6; वर्ग » 25; मन्त्र » 3
पदार्थः -
(अग्ने) हे अग्रणेतः ! परमात्मन् ! भौतिकाग्ने ! वा (सः-त्वम्) स त्वं (यातुधान्यः) यातनां धारयन्तीः प्राणिजातीः-रोगजातीर्वा (प्रतीकेन प्रति-ओष) प्रत्यक्तेन प्रतापेन संलग्नतेजसा वा प्रति दह “उष दाहे” [भ्वादि०] (उरुक्षयेषु दीद्यत्) बहुनिवासस्थानेषु जनानां हृदयेषु गृहेषु वा साक्षात्प्रकाशमानः ॥८॥