ऋग्वेद - मण्डल 10/ सूक्त 118/ मन्त्र 7
ऋषिः - उरुक्षय आमहीयवः
देवता - अग्नी रक्षोहा
छन्दः - पादनिचृद्गायत्री
स्वरः - षड्जः
अदा॑भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह । गो॒पा ऋ॒तस्य॑ दीदिहि ॥
स्वर सहित पद पाठअदा॑भ्येन । शो॒चिषा॑ । अग्ने॑ । रक्षः॑ । त्वम् । द॒ह॒ । गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ ॥
स्वर रहित मन्त्र
अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह । गोपा ऋतस्य दीदिहि ॥
स्वर रहित पद पाठअदाभ्येन । शोचिषा । अग्ने । रक्षः । त्वम् । दह । गोपाः । ऋतस्य । दीदिहि ॥ १०.११८.७
ऋग्वेद - मण्डल » 10; सूक्त » 118; मन्त्र » 7
अष्टक » 8; अध्याय » 6; वर्ग » 25; मन्त्र » 2
अष्टक » 8; अध्याय » 6; वर्ग » 25; मन्त्र » 2
पदार्थः -
(अग्ने) हे परमात्मन् ! भौतिकाग्ने ! वा (अदाभ्येन शोचिषा) स्वकीयेनाहिंसनीयेन तेजसा (त्वं रक्षः-दह) त्वं रक्षन्ति यस्मात् तं दुष्टजनं रोगं वा दग्धं कुरु (गोपाः-ऋतस्य-दीदिहि) रक्षकः सन् “ऋतम् द्वितीयार्थे षष्ठी छान्दसी” अध्यात्मयज्ञं होमयज्ञं वा प्रकाशय ॥७॥