ऋग्वेद - मण्डल 10/ सूक्त 12/ मन्त्र 3
ऋषिः - हविर्धान आङ्गिः
देवता - अग्निः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयन्त उ॒र्वी । विश्वे॑ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तं वाः ॥
स्वर सहित पद पाठस्वावृ॑क् । दे॒वस्य॑ । अ॒मृत॑म् । यदि॑ । गोः । अतः॑ । जा॒तासः॑ । धा॒र॒य॒न्ते॒ । उ॒र्वी इति॑ । विश्वे॑ । दे॒वाः । अनु॑ । तत् । ते॒ । यजुः॑ । गुः॒ । दु॒हे । यत् । एनी॑ । दि॒व्यम् । घृ॒तम् । वारिति॒ वाः ॥
स्वर रहित मन्त्र
स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी । विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥
स्वर रहित पद पाठस्वावृक् । देवस्य । अमृतम् । यदि । गोः । अतः । जातासः । धारयन्ते । उर्वी इति । विश्वे । देवाः । अनु । तत् । ते । यजुः । गुः । दुहे । यत् । एनी । दिव्यम् । घृतम् । वारिति वाः ॥ १०.१२.३
ऋग्वेद - मण्डल » 10; सूक्त » 12; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 11; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 11; मन्त्र » 3
पदार्थः -
(गोः-देवस्य) सर्वत्र प्रापणशीलस्य परमात्मदेवस्य (स्वावृक्) निजावर्जितम् ‘स्वपूर्वात् वृजी वर्जने, इत्यस्मादाङ्पूर्वात् क्विप्-औणादिकः सर्वलिङ्गः’ स्वस्मिन् शाश्वतिकं स्थितम् (अमृतम्) अनश्वरसुखम् (यत्-इ) यतोऽस्ति तस्मात् (उर्वी) द्यावापृथिव्यौ-द्यावापृथिव्योर्मध्ये ‘विभक्तिव्यत्ययः’ द्यावापृथिवीमये जगति “उर्वी द्यावापृथिवीनाम” [निघ०३।३०] (विश्वे देवाः-धारयन्ति) परमात्मनि प्रवेशशीला मुमुक्षवो जीवान्मुक्ताः धारयन्ति (ते तत्-यजुः-अनुगुः) हे परमात्मदेव ! ते तव यजुर्यजनं दानमनुगायन्ति प्रशंसन्ति (यत्-एनी दिव्यं घृतं वाः-दुहे) यथा काचित् नदी “एन्यो नद्यः” [निघ०१।१३] दिव्यं तेजोरूपं जलं वहेदिति तथा त्वममृतं प्रवहसि “तेजो वै घृतम्” [मै०१।६।८] ॥३॥