ऋग्वेद - मण्डल 10/ सूक्त 12/ मन्त्र 4
ऋषिः - हविर्धान आङ्गिः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अर्चा॑मि वां॒ वर्धा॒यापो॑ घृतस्नू॒ द्यावा॑भूमी शृणु॒तं रो॑दसी मे । अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा॑ नो॒ अत्र॑ पि॒तरा॑ शिशीताम् ॥
स्वर सहित पद पाठअर्चा॑मि । वा॒म् । वर्धा॑य । अपः॑ । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । द्यावा॑भूमी॒ इति॑ । शृ॒णु॒तम् । रो॒द॒सी॒ इति॑ । मे॒ । अहा॑ । यत् । द्यावः॑ । असु॑ऽनीतिम् । अय॑न् । मध्वा॑ । नः॒ । अत्र॑ । पि॒तरा॑ । शि॒शी॒ता॒म् ॥
स्वर रहित मन्त्र
अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । अहा यद्द्यावोऽसुनीतिमयन्मध्वा नो अत्र पितरा शिशीताम् ॥
स्वर रहित पद पाठअर्चामि । वाम् । वर्धाय । अपः । घृतस्नू इति घृतऽस्नू । द्यावाभूमी इति । शृणुतम् । रोदसी इति । मे । अहा । यत् । द्यावः । असुऽनीतिम् । अयन् । मध्वा । नः । अत्र । पितरा । शिशीताम् ॥ १०.१२.४
ऋग्वेद - मण्डल » 10; सूक्त » 12; मन्त्र » 4
अष्टक » 7; अध्याय » 6; वर्ग » 11; मन्त्र » 4
अष्टक » 7; अध्याय » 6; वर्ग » 11; मन्त्र » 4
पदार्थः -
(घृतस्नू) हे तेजसो जलस्य च सम्भाजयितारौ “घृतस्नूर्घृतसानिन्यः” [निरु०१२।३६] (रोदसी) रोधसी रोधस्वतौ संरक्षकौ “रोदसी रोधसी रोधः कूलं निरुणद्धि स्रोतः” [निरु०६।१] (द्यावाभूमी) सूर्यपृथिव्याविव (पितरा) मातापितरौ ज्ञानप्रकाशजीवनरसप्रदातारौ (वाम्-अर्चामि) युवां स्तौमि-इत्यत्र त्वामग्निं परमात्मानं सूर्यरूपं भूमिरूपं मातृरूपं पितृरूपं ज्ञानप्रकाशदातारं जीवनरसदातारं त्वां स्तौमि (अपः-वर्धाय) कर्मक्षेत्रस्य जीवनस्य वर्धनाय “अपः कर्मनाम” [निघ०२।१] ‘मतुब्लोपश्छान्दसः’ (मे शृणुतम्) मम प्रार्थनावचनं शृणु (यत्-अहा द्यावः) यतो हि दिनानि द्युसंलग्नत्वादत्र रात्रयोऽपेक्ष्यन्ते रात्रयश्च (असुनीतिम्-अयन्) प्राणनयनशक्तिं जीवनशक्तिं प्राप्नुवन्तु “असुनीतिरसून् नयति” [निरु०१०।३९] (अत्र) अस्मिन् जीवने (नः) अस्मभ्यम् (मध्वा शिशीताम्) निजमधुरसुखानि ‘मध्वा’ इत्यात् प्रत्ययः [अष्टा०७।१।३९] दत्तम्-देहि “शिशीतिर्दानकर्मा” [निरु०५।२३] ॥४॥