ऋग्वेद - मण्डल 10/ सूक्त 12/ मन्त्र 5
ऋषिः - हविर्धान आङ्गिः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
किं स्वि॑न्नो॒ राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द । मि॒त्रश्चि॒द्धि ष्मा॑ जुहुरा॒णो दे॒वाञ्छ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥
स्वर सहित पद पाठकिम् । स्वि॒त् । नः॒ । राजा॑ । ज॒गृ॒हे॒ । कत् । अ॒स्य॒ । अति॑ । व्र॒तम् । च॒कृ॒म॒ । कः । वि । वे॒द॒ । मि॒त्रः । चि॒त् । हि । स्म॒ । जु॒हु॒रा॒णः । दे॒वान् । श्लोकः॑ । न । या॒ताम् । अपि॑ । वाजः॑ । अस्ति॑ ॥
स्वर रहित मन्त्र
किं स्विन्नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद । मित्रश्चिद्धि ष्मा जुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति ॥
स्वर रहित पद पाठकिम् । स्वित् । नः । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चकृम । कः । वि । वेद । मित्रः । चित् । हि । स्म । जुहुराणः । देवान् । श्लोकः । न । याताम् । अपि । वाजः । अस्ति ॥ १०.१२.५
ऋग्वेद - मण्डल » 10; सूक्त » 12; मन्त्र » 5
अष्टक » 7; अध्याय » 6; वर्ग » 11; मन्त्र » 5
अष्टक » 7; अध्याय » 6; वर्ग » 11; मन्त्र » 5
पदार्थः -
(राजा नः किं स्वित्-जगृहे) ज्ञानप्रकाशेन राजमानः परमात्माऽस्माकं किं हि खलु स्तुतिवचनं स्वीकुर्यात् (अस्य कत्-व्रतम्-अतिचकृम) अस्य किं कथम्भूतं व्रतं कर्म विधानं शासनं वयमत्यन्तं सेवेमहि, इति (कः-विवेद) कश्चन भाग्यशाली धीरो विविच्य वेत्तुमर्हति (जुहुराणः) आहूयमानः (मित्रः-चित्-हि-स्म) स तु मित्र इव हि खलु (श्लोकः-देवान् न याताम्) स स्तुतिश्रवणसमर्थः सत्यस्तुति-संयुक्तः “श्लोकः शृणोतेः” [निरु०९।६] “श्लोकः सत्यवाक्संपृक्तः” [यजु०११।५ दयानन्दः] न सम्प्रत्यर्थे, अस्मान्-उपासकान् मुमुक्षून् प्राप्नोति (वाजः-अस्ति) मुमुक्षूणां वाजोऽमृतभोगोऽस्ति “अमृतोऽन्नं वै वाजः” [जै०२।१९३] ॥५॥