ऋग्वेद - मण्डल 10/ सूक्त 129/ मन्त्र 6
ऋषिः - प्रजापतिः परमेष्ठी
देवता - भाववृत्तम्
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑च॒त्कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः । अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ॥
स्वर सहित पद पाठकः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॒च॒त् । कुतः॑ । आऽजा॑ता । कुतः॑ । इ॒यम् । विऽसृ॑ष्टिः । अ॒र्वाक् । दे॒वाः । अ॒स्य । वि॒ऽसर्ज॑नेन । अथ॑ । कः । वे॒द॒ । यतः॑ । आ॒ऽब॒भूव॑ ॥
स्वर रहित मन्त्र
को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥
स्वर रहित पद पाठकः । अद्धा । वेद । कः । इह । प्र । वोचत् । कुतः । आऽजाता । कुतः । इयम् । विऽसृष्टिः । अर्वाक् । देवाः । अस्य । विऽसर्जनेन । अथ । कः । वेद । यतः । आऽबभूव ॥ १०.१२९.६
ऋग्वेद - मण्डल » 10; सूक्त » 129; मन्त्र » 6
अष्टक » 8; अध्याय » 7; वर्ग » 17; मन्त्र » 6
अष्टक » 8; अध्याय » 7; वर्ग » 17; मन्त्र » 6
पदार्थः -
(कः-अद्धा वेद) कस्तत्त्वतो जानीयात् (कः-इह प्र वोचत्) को ह्यस्मिन् विषये प्रकथयेत् (कुतः-इयं विसृष्टिः कुतः-आजाता) कुतो निमित्तकारणात् खल्वियं विविधा सृष्टिः कुत उपादानाच्च प्रादुर्भूता (अस्य विसर्जनेन-अर्वाक्-देवाः) अस्य जगतो विसर्जनात् ‘विसर्जनेन विभक्तिव्यत्ययेन तृतीया पञ्चमीस्थाने’ पश्चादुत्पन्ना विद्वांसः सन्ति (अथ कः-वेद यतः-आबभूव) पुनः को जानीयात्-यत उपादानात् सृष्टिराभूता प्रादुर्भूता ॥६॥