ऋग्वेद - मण्डल 10/ सूक्त 129/ मन्त्र 5
ऋषिः - प्रजापतिः परमेष्ठी
देवता - भाववृत्तम्
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् । रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्त्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ॥
स्वर सहित पद पाठति॒र॒श्चीनः॑ । विऽत॑तः । र॒श्मिः । ए॒षा॒म् । अ॒धः । स्वि॑त् । आ॒सी॒३त् । उ॒परि॑ । स्वित् । आ॒सी॒३त् । रे॒तः॒ऽधाः । आ॒स॒न् । म॒हि॒मानः॑ । आ॒स॒न् । स्व॒धा । अ॒वस्ता॑त् । प्रऽय॑तिः । प॒रस्ता॑त् ॥
स्वर रहित मन्त्र
तिरश्चीनो विततो रश्मिरेषामधः स्विदासी३दुपरि स्विदासी३त् । रेतोधा आसन्महिमान आसन्त्स्वधा अवस्तात्प्रयतिः परस्तात् ॥
स्वर रहित पद पाठतिरश्चीनः । विऽततः । रश्मिः । एषाम् । अधः । स्वित् । आसी३त् । उपरि । स्वित् । आसी३त् । रेतःऽधाः । आसन् । महिमानः । आसन् । स्वधा । अवस्तात् । प्रऽयतिः । परस्तात् ॥ १०.१२९.५
ऋग्वेद - मण्डल » 10; सूक्त » 129; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 17; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 17; मन्त्र » 5
पदार्थः -
(रेतोधाः-आसन्) प्राणिसृष्टेः पूर्वं शरीरस्य बीजशक्तिः-काम उक्तो रेत इति नामतः, रेतसो धारयितार आत्मान आसन् (महिमानः-आसन्) ते महान्तोऽसङ्ख्याताः खल्वासन् (एषां रश्मिः) एतेषां बन्धनरश्मिर्यद्वा बन्धनप्रग्रहः “अभिशवो वै रश्मयः” [श० ५।४।३।१४] पूर्वकर्मकृतसंस्कारः (तिरश्चीनः-विततः) विस्तृतः “तिरस्तीर्णो भवति” [निरु० ३।२०] तथा प्रसृतः-आसीत् (अधः स्वित् आसीत्-उपरि स्वित्-आसीत्) निकृष्टयोनिजन्म हेतुरप्यासीदुत्कृष्टयोनिजन्महेतुः खल्वप्यासीत् (अवस्तात् स्वधा परस्तात् प्रयतिः) शरीरस्यावरभागे स्वधारणा जन्मग्रहणं परभागे प्रयाणं मृत्युर्भवति ॥५॥