ऋग्वेद - मण्डल 10/ सूक्त 130/ मन्त्र 1
ऋषिः - यज्ञः प्राजापत्यः
देवता - भाववृत्तम्
छन्दः - विराड्जगती
स्वरः - निषादः
यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः । इ॒मे व॑यन्ति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥
स्वर सहित पद पाठयः । य॒ज्ञः । वि॒श्वतः॑ । तन्तु॑ऽभिः । त॒तः । एक॑ऽशतम् । दे॒व॒ऽक॒र्मेभिः॑ । आऽय॑तः । इ॒मे । व॒य॒न्ति॒ । पि॒तरः॑ । ये । आ॒ऽय॒युः । प्र । व॒य॒ । अप॑ । व॒य॒ । इति॑ । आ॒स॒ते॒ । त॒ते ॥
स्वर रहित मन्त्र
यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः । इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्यासते तते ॥
स्वर रहित पद पाठयः । यज्ञः । विश्वतः । तन्तुऽभिः । ततः । एकऽशतम् । देवऽकर्मेभिः । आऽयतः । इमे । वयन्ति । पितरः । ये । आऽययुः । प्र । वय । अप । वय । इति । आसते । तते ॥ १०.१३०.१
ऋग्वेद - मण्डल » 10; सूक्त » 130; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 1
विषयः - सूक्तेऽस्मिन् ब्राह्मशरीरं मुक्तानां मोक्षे ब्राह्मशतवार्षिकं भवति संसारे च भौतिकं शरीरं शतवार्षिकं लौकिकमित्येवमादयो विषयाः प्रोक्ताः सन्ति।
पदार्थः -
(यः-यज्ञः) यः सृष्टियज्ञः पुरुषयज्ञो वा (तन्तुभिः-विश्वतः-ततः) सृष्टितानकैः परमाणुभिर्नाडितन्तुभिर्वा सर्वत आततः (देवकर्मभिः-एकशतम्-आयतः) परमात्मदेवस्य रचनादिकर्मभिरेकशतं शतायुष्को ब्राह्मयज्ञो मोक्षावधिको मानवजीवनापेक्षकः शरीरयज्ञो वा ‘अत्र’ एक शब्दो न शतादधिकार्थकः, शतशब्दस्य विशेषणभूतत्वात् स सामान्यार्थको यथा “एकशताय-असङ्ख्याताय दीर्घीभूतः” [यजु० २२।३४ दयानन्दः] (इमे पितरः-वयन्ति) एते-ऋतवः “ऋतवः पितरः” [श० २।४।२।२४] प्राणा वा “प्राणो वै पिता” [ऐ० २।३८] तानयन्ति निर्मायन्ति (ये-आययुः) ये सर्वत्र प्राप्नुवन्ति (प्र वय-अप वय-इति तते आसते) ‘प्रतानय-अपतानय’ इति परस्परं प्रेरयन्तः सन्तः ते ब्राह्मशरीरयज्ञे पुरुषयज्ञे विराजन्ते ॥१॥