ऋग्वेद - मण्डल 10/ सूक्त 130/ मन्त्र 2
ऋषिः - यज्ञः प्राजापत्यः
देवता - भाववृत्तम्
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
पुमाँ॑ एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्वि त॑त्ने॒ अधि॒ नाके॑ अ॒स्मिन् । इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सद॒: सामा॑नि चक्रु॒स्तस॑रा॒ण्योत॑वे ॥
स्वर सहित पद पाठपुमा॑न् । ए॒न॒म् । त॒नु॒ते॒ । उत् । कृ॒ण॒त्ति॒ । पुमा॑न् । वि । त॒त्ने॒ । अधि॑ । नाके॑ । अ॒स्मिन् । इ॒मे । म॒यूखाः॑ । उप॑ । से॒दुः॒ । ऊँ॒ इति॑ । सदः॑ । सामा॑नि । च॒क्रुः॒ । तस॑राणि । ओत॑वे ॥
स्वर रहित मन्त्र
पुमाँ एनं तनुत उत्कृणत्ति पुमान्वि तत्ने अधि नाके अस्मिन् । इमे मयूखा उप सेदुरू सद: सामानि चक्रुस्तसराण्योतवे ॥
स्वर रहित पद पाठपुमान् । एनम् । तनुते । उत् । कृणत्ति । पुमान् । वि । तत्ने । अधि । नाके । अस्मिन् । इमे । मयूखाः । उप । सेदुः । ऊँ इति । सदः । सामानि । चक्रुः । तसराणि । ओतवे ॥ १०.१३०.२
ऋग्वेद - मण्डल » 10; सूक्त » 130; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 2
पदार्थः -
(पुमान्-एतं तनुते) परमपुरुषः परमात्मा-एतं ब्राह्मयज्ञं शरीरयज्ञं वा तानयति रचयति (उत् कृणत्ति) उद्वेष्टयति ‘कृती वेष्टने’ [रुधादि०] (पुमान्-अधि नाके-अस्मिन् वि तत्ने) परमात्मा मोक्षे ब्राह्मयज्ञं तथाऽस्मिन् लोके शरीरयज्ञं विस्तारयति विरचयति (इमे-मयूखाः सदः-उप सेदुः) एते ज्ञानप्रकाशादयो गुणाः-रश्मयो वा “मयूखैर्ज्ञानप्रकाशादिगुणैः-रश्मिभिर्वा” [यजु० ५।१६ दयानन्दः] “मयूखा रश्मिनाम” [निघ० १।५] सदनं तमेव ब्राह्मयज्ञं शरीरयज्ञं स्थानमुपसीदन्ति (सामानि तसराणि-ओतवे-चक्रुः) समतायां भवानि सुखयितॄणि सूत्राणि बन्धनानि रक्षकाणि “तन्यृषिभ्यां क्सरन्” [उणादि० ३।७५] वयनाय कुर्वन्ति ॥२॥