Loading...
ऋग्वेद मण्डल - 10 के सूक्त 130 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 130/ मन्त्र 7
    ऋषिः - यज्ञः प्राजापत्यः देवता - भाववृत्तम् छन्दः - त्रिष्टुप् स्वरः - धैवतः

    स॒हस्तो॑माः स॒हछ॑न्दस आ॒वृत॑: स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्या॑: । पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३॒॑ न र॒श्मीन् ॥

    स्वर सहित पद पाठ

    स॒हऽस्तो॑माः । स॒हऽछ॑न्दसः । आ॒ऽवृतः॑ । स॒हऽप्र॑माः । ऋष॑यः । स॒प्त । दैव्याः॑ । पूर्वे॑षाम् । पन्था॑म् । अ॒नु॒ऽदृश्य॑ । धीराः॑ । अ॒नु॒ऽआले॑भिरे । र॒थ्यः॑ । न । र॒श्मीन् ॥


    स्वर रहित मन्त्र

    सहस्तोमाः सहछन्दस आवृत: सहप्रमा ऋषयः सप्त दैव्या: । पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो३ न रश्मीन् ॥

    स्वर रहित पद पाठ

    सहऽस्तोमाः । सहऽछन्दसः । आऽवृतः । सहऽप्रमाः । ऋषयः । सप्त । दैव्याः । पूर्वेषाम् । पन्थाम् । अनुऽदृश्य । धीराः । अनुऽआलेभिरे । रथ्यः । न । रश्मीन् ॥ १०.१३०.७

    ऋग्वेद - मण्डल » 10; सूक्त » 130; मन्त्र » 7
    अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 7

    पदार्थः -
    (सहस्तोमाः) स्तुतिवचनैर्मन्त्रैः सह (सह छन्दसः) छन्दोभिः सह (आवृतः) आवर्तयन्तः सेवमानाः (सप्रमाः) प्रमासहिताः (सह दैव्याः-ऋषयः) सप्तदर्शनसाधना ऋषयो ज्ञानदर्शयितारः प्राणाः सप्तशीर्षण्या यद्वा मनबुद्धिचित्ताहङ्काराः श्रोत्रनेत्रे वाक् च देवकृताः स्वाभाविका ऋषयः (पूर्वेषां पन्थाम्-अनुदृश्य) पूर्वेषां जीवन्मुक्तानां पन्थानमनुभूय (धीराः-अन्वालेभिरे) ध्यानवन्तः-लाभं गृहीतवन्तः (रथ्यः-न रश्मीन्) यथा रथिनोऽश्वप्रग्रहान् गृहीत्वा मार्गस्य पारं लभन्ते ॥७॥

    इस भाष्य को एडिट करें
    Top