Loading...
ऋग्वेद मण्डल - 10 के सूक्त 130 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 130/ मन्त्र 6
    ऋषिः - यज्ञः प्राजापत्यः देवता - भाववृत्तम् छन्दः - त्रिष्टुप् स्वरः - धैवतः

    चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या॑ य॒ज्ञे जा॒ते पि॒तरो॑ नः पुरा॒णे । पश्य॑न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे॑ ॥

    स्वर सहित पद पाठ

    चा॒कॢ॒प्रे । तेन॑ । ऋष॑यः । म॒नु॒ष्याः॑ । य॒ज्ञे । जा॒ते । पि॒तरः॑ । नः॒ । पु॒रा॒णे । पश्य॑न् । म॒न्ये॒ । मन॑सा । चक्ष॑सा । तान् । ये । इ॒मम् । य॒ज्ञम् । अय॑जन्त । पूर्वे॑ ॥


    स्वर रहित मन्त्र

    चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे । पश्यन्मन्ये मनसा चक्षसा तान्य इमं यज्ञमयजन्त पूर्वे ॥

    स्वर रहित पद पाठ

    चाकॢप्रे । तेन । ऋषयः । मनुष्याः । यज्ञे । जाते । पितरः । नः । पुराणे । पश्यन् । मन्ये । मनसा । चक्षसा । तान् । ये । इमम् । यज्ञम् । अयजन्त । पूर्वे ॥ १०.१३०.६

    ऋग्वेद - मण्डल » 10; सूक्त » 130; मन्त्र » 6
    अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 6

    पदार्थः -
    (पुराणे जाते यज्ञे) शाश्वतिके यज्ञे सम्पन्ने सति (नः) अस्माकं (पितरः) पालकाः (तेन) तेन यज्ञेन (ऋषयः-मनुष्याः-चाक्लृप्रे) मन्त्रद्रष्टारो मनुष्याः समर्था भवन्ति (तान् मनसा चक्षसा पश्यन् मन्ये) तान् मनसा दर्शनसाधनेन च पश्यन् मन्ये जानामि (ये पूर्वे-इमं-यज्ञम्-अयजन्त) ये पुरातना मान्या महानुभावाः-इमं ब्राह्मयज्ञं शरीरयज्ञं च सम्यगनुतिष्ठन्ते ॥६॥

    इस भाष्य को एडिट करें
    Top