Loading...
ऋग्वेद मण्डल - 10 के सूक्त 131 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 131/ मन्त्र 2
    ऋषिः - सुकीर्तिः काक्षीवतः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥

    स्वर सहित पद पाठ

    कु॒वित् । अ॒ङ्ग । यव॑ऽमन्तः । यव॑म् । चि॒त् । यथा॑ । दान्ति॑ । अ॒नु॒ऽपू॒र्वम् । वि॒ऽयूय॑ । इ॒हऽइ॑ह । ए॒षा॒म् । कृ॒णु॒हि॒ । भोज॑नानि । ये । ब॒र्हिषः॑ । नमः॑ऽवृक्तिम् । न । ज॒ग्मुः ॥


    स्वर रहित मन्त्र

    कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥

    स्वर रहित पद पाठ

    कुवित् । अङ्ग । यवऽमन्तः । यवम् । चित् । यथा । दान्ति । अनुऽपूर्वम् । विऽयूय । इहऽइह । एषाम् । कृणुहि । भोजनानि । ये । बर्हिषः । नमःऽवृक्तिम् । न । जग्मुः ॥ १०.१३१.२

    ऋग्वेद - मण्डल » 10; सूक्त » 131; मन्त्र » 2
    अष्टक » 8; अध्याय » 7; वर्ग » 19; मन्त्र » 2

    पदार्थः -
    (अङ्ग) हे परमात्मन् ! राजन् ! वा (कुवित्) प्रशंसनीयमिदं यत् “कुवित् भूर्यर्थप्रशंसायां च” [अव्ययार्थनिबन्धनम्] (यवमन्तः) अन्नवन्तः “यवं दुहन्तो-अन्नं दुहन्तो” [निरु० ६।२६] कृषकाः (यथा यवं चित्) यथाऽन्नमपि (वियूय-अनुपूर्वं दान्ति) पृथक् पृथक् कृत्वा खल्वानुपूर्व्येण लुनन्ति “दाप् लवने” [अदादि०] एवं (इह-इह) अत्र स्थाने अत्र स्थाने (एषां भोजनानि कृणुहि) एतेषां यजमानानां भोगवस्तूनि कुरु (ये बर्हिषः) ये प्रजायाः (वृक्तिं न जग्मुः) अन्नदानवर्जनं न प्राप्नुवन्ति किन्तु तस्या भागं प्रयच्छन्ति हि ॥२॥

    इस भाष्य को एडिट करें
    Top