ऋग्वेद - मण्डल 10/ सूक्त 131/ मन्त्र 3
ऋषिः - सुकीर्तिः काक्षीवतः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑ । ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः ॥
स्वर सहित पद पाठन॒हि । स्थूरि॑ । ऋ॒तु॒ऽथा । या॒तम् । अस्ति॑ । न । उ॒त । श्रवः॑ । वि॒वि॒दे॒ । स॒म्ऽग॒मेषु॑ । ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽयन्तः॑ । वृष॑णम् । वा॒जऽय॑न्तः ॥
स्वर रहित मन्त्र
नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु । गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥
स्वर रहित पद पाठनहि । स्थूरि । ऋतुऽथा । यातम् । अस्ति । न । उत । श्रवः । विविदे । सम्ऽगमेषु । गव्यन्तः । इन्द्रम् । सख्याय । विप्राः । अश्वऽयन्तः । वृषणम् । वाजऽयन्तः ॥ १०.१३१.३
ऋग्वेद - मण्डल » 10; सूक्त » 131; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 19; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 19; मन्त्र » 3
पदार्थः -
(स्थूरिः-ऋतुथा न हि यातम्-अस्ति) स्थितं यानं खल्वश्वहीनं समयानुरूपं यातव्यं न हि समर्थं भवति (न-उत सङ्गमेषु श्रवः-विविदे) नापि सङ्ग्रामेषु यशो विजयं प्राप्नोति (विप्राः) विद्वांसः (गव्यन्तः) गां वाचं कामयमानाः (अश्वयन्तः) व्यापनशीलं मनो वाञ्छन्तः (वाजयन्तः) अमृतान्नभोगमिच्छन्तः (सख्याय) सखिभावाय (वृषणम्-इन्द्रम्) सुखवर्षकं परमात्मानं राजानं वा शरणं गच्छन्तु ॥३॥