Loading...
ऋग्वेद मण्डल - 10 के सूक्त 131 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 131/ मन्त्र 5
    ऋषिः - सुकीर्तिः काक्षीवतः देवता - अश्विनौ छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथु॒: काव्यै॑र्दं॒सना॑भिः । यत्सु॒रामं॒ व्यपि॑ब॒: शची॑भि॒: सर॑स्वती त्वा मघवन्नभिष्णक् ॥

    स्वर सहित पद पाठ

    पु॒त्रम्ऽइ॑व । पि॒तरौ॑ । अ॒श्विना॑ । उ॒भा । इन्द्र॑ । आ॒वथुः॑ । काव्यैः॑ । दं॒सना॑भिः । यत् । सु॒राम॑म् । वि । अपि॑बः । शची॑भिः । सर॑स्वती । त्वा॒ । म॒घ॒ऽव॒न् । अ॒भि॒ष्ण॒क् ॥


    स्वर रहित मन्त्र

    पुत्रमिव पितरावश्विनोभेन्द्रावथु: काव्यैर्दंसनाभिः । यत्सुरामं व्यपिब: शचीभि: सरस्वती त्वा मघवन्नभिष्णक् ॥

    स्वर रहित पद पाठ

    पुत्रम्ऽइव । पितरौ । अश्विना । उभा । इन्द्र । आवथुः । काव्यैः । दंसनाभिः । यत् । सुरामम् । वि । अपिबः । शचीभिः । सरस्वती । त्वा । मघऽवन् । अभिष्णक् ॥ १०.१३१.५

    ऋग्वेद - मण्डल » 10; सूक्त » 131; मन्त्र » 5
    अष्टक » 8; अध्याय » 7; वर्ग » 19; मन्त्र » 5

    पदार्थः -
    (पितरौ पुत्रम्-इव) मातापितरौ यथा पुत्रं प्रीणीतः (काव्यैः-दंसनाभिः) विविधमधुरवचनैः कर्मभिश्च “दंसः कर्मनाम” [निघ० २।३] तद्वत् (इन्द्र) हे इन्द्र परमात्मन् ! (उभा-अश्विना-अवथुः) त्वां सुशिक्षितौ स्त्रीपुरुषौ-अवतः ‘पुरुषव्यत्ययेन प्रथमस्थाने मध्यमः’ प्रीणीतः (शचीभिः-यत् सुरामं वि अपिबः) रक्षाकर्मभिः “शची कर्मनाम” [निघ० २।१] यत् सुरमणीयमुपहाररूपं सोमरसं त्वं पिबसि (मघवन् सरस्वती त्वा-अभिष्णक्) राजन् ! स्तुतिवाक्-विद्यासभां वां त्वामुपसेवते, “भिष्णक्-उपसेवायाम्” [कण्ड्वादि०] ॥५॥

    इस भाष्य को एडिट करें
    Top