Loading...
ऋग्वेद मण्डल - 10 के सूक्त 131 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 131/ मन्त्र 4
    ऋषिः - सुकीर्तिः काक्षीवतः देवता - अश्विनौ छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ । वि॒पि॒पा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ॥

    स्वर सहित पद पाठ

    यु॒वम् । सु॒राम॑म् । अ॒श्वि॒ना॒ । नमु॑चौ । आ॒सु॒रे । सचा॑ । वि॒ऽपि॒पा॒ना । शु॒भः॒ । प॒ती॒ इति॑ । इन्द्र॑म् । कर्म॑ऽसु । आ॒व॒त॒म् ॥


    स्वर रहित मन्त्र

    युवं सुराममश्विना नमुचावासुरे सचा । विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥

    स्वर रहित पद पाठ

    युवम् । सुरामम् । अश्विना । नमुचौ । आसुरे । सचा । विऽपिपाना । शुभः । पती इति । इन्द्रम् । कर्मऽसु । आवतम् ॥ १०.१३१.४

    ऋग्वेद - मण्डल » 10; सूक्त » 131; मन्त्र » 4
    अष्टक » 8; अध्याय » 7; वर्ग » 19; मन्त्र » 4

    पदार्थः -
    (अश्विना युवम्) ये अश्विनौ-सुशिक्षितस्त्रीपुरुषौ “अश्विना सुशिक्षितौ स्त्रीपुरुषौ” [यजु० ३८।१२ दयानन्दः] युवां (सचा) सह मिलित्वा (शुभस्पती) स्वलङ्कारपालकौ (आसुरे नमुचौ) असूनां प्राणानामयं नियन्ताऽऽसुरो जीवः स च न मुञ्चति शरीरं न मृत्युं काङ्क्षति तस्मिन् स्वात्मनि (सुरामं विपिपाना) जीवनस्य सुरमणीयं सुखं सुखदानं विशेषेण पिबन्तौ (कर्मसु) गृहस्थकर्मसु (इन्द्रम्-आवतम्) ऐश्वर्यवन्तं परमात्मानं सुगृहस्थभावनाय कामयेथाम् ॥४॥

    इस भाष्य को एडिट करें
    Top