ऋग्वेद - मण्डल 10/ सूक्त 137/ मन्त्र 2
ऋषिः - सप्त ऋषय एकर्चाः
देवता - विश्वेदेवा:
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
द्वावि॒मौ वातौ॑ वात॒ आ सिन्धो॒रा प॑रा॒वत॑: । दक्षं॑ ते अ॒न्य आ वा॑तु॒ परा॒न्यो वा॑तु॒ यद्रप॑: ॥
स्वर सहित पद पाठद्वौ । इ॒मौ । वातौ॑ । वा॒तः॒ । आ । सिन्धोः॑ । आ । प॒रा॒ऽवतः॑ । दक्ष॑म् । ते॒ । अ॒न्यः । आ । वा॒तु॒ । परा॑ । अ॒न्यः । वा॒तु॒ । यत् । रपः॑ ॥
स्वर रहित मन्त्र
द्वाविमौ वातौ वात आ सिन्धोरा परावत: । दक्षं ते अन्य आ वातु परान्यो वातु यद्रप: ॥
स्वर रहित पद पाठद्वौ । इमौ । वातौ । वातः । आ । सिन्धोः । आ । पराऽवतः । दक्षम् । ते । अन्यः । आ । वातु । परा । अन्यः । वातु । यत् । रपः ॥ १०.१३७.२
ऋग्वेद - मण्डल » 10; सूक्त » 137; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 25; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 25; मन्त्र » 2
पदार्थः -
(इमौ द्वौ वातौ वातः) एतौ द्वौ वायू श्वासप्रश्वासौ वहतः (आसिन्धोः-आपरावतः) तत्रैकः स्यन्दमानः प्राणाशयं हृदयपर्यन्तं श्वासरूपो वायुः “प्राणो वै सिन्धुः” [श० ८।५।२।४] द्वितीयो वायुः प्रश्वासो दूरस्थानपर्यन्तं शरीराद्बहिः (ते दक्षम्-अन्यः-आ वातु) तुभ्यं हे रोगिन् ! अन्यः श्वासो बलमानयतु (अन्यः-यत्-रपः-परा वातु) प्रश्वासो यद्रपः पापं रोगदुःखम् “रपः पापफलमिव रोगाख्यं दुःखम्” [यजु० १२।८४ दयानन्दः] “रपो रिप्रमिति पापनाम्नी भवतः” [निरु० ४।२१] परानयतु दूरं करोतु ॥२॥