Loading...
ऋग्वेद मण्डल - 10 के सूक्त 137 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 137/ मन्त्र 3
    ऋषिः - सप्त ऋषय एकर्चाः देवता - विश्वेदेवा: छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रप॑: । त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से ॥

    स्वर सहित पद पाठ

    आ । वा॒त॒ । वा॒हि॒ । भे॒ष॒जम् । वि । वा॒त॒ । वा॒हि॒ । यत् । रपः॑ । त्वम् । हि । वि॒श्वऽभे॑षजः । दे॒वाना॑म् । दू॒तः । ईय॑से ॥


    स्वर रहित मन्त्र

    आ वात वाहि भेषजं वि वात वाहि यद्रप: । त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥

    स्वर रहित पद पाठ

    आ । वात । वाहि । भेषजम् । वि । वात । वाहि । यत् । रपः । त्वम् । हि । विश्वऽभेषजः । देवानाम् । दूतः । ईयसे ॥ १०.१३७.३

    ऋग्वेद - मण्डल » 10; सूक्त » 137; मन्त्र » 3
    अष्टक » 8; अध्याय » 7; वर्ग » 25; मन्त्र » 3

    पदार्थः -
    (वात भेषजम्-आ वाहि) हे वायो ! भेषजं स्वास्थ्यप्रदमौषधं गुणं वा-आनय (वात यत्-रपः-वि वाहि) हे वायो ! यद्दुःखं रोगकरं तत् पृथक् नय (त्वं हि विश्वभेषजः) त्वं हि सर्वौषधवान् (देवानां दूतः-ईयसे) देवानां दिव्यगुणानां दूत इव गच्छसि ॥३॥

    इस भाष्य को एडिट करें
    Top