ऋग्वेद - मण्डल 10/ सूक्त 137/ मन्त्र 6
ऋषिः - सप्त ऋषय एकर्चाः
देवता - विश्वेदेवा:
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आप॒: सर्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥
स्वर सहित पद पाठआपः॑ । इत् । वा॒ । ऊँ॒ इति॑ । भे॒ष॒जीः । आपः । अ॒मी॒व॒ऽचात॑नीः । आपः॑ । सर्व॑स्य । भे॒ष॒जीः । ताः । ते॒ । कृ॒ण्व॒न्तु॒ । भे॒ष॒जम् ॥
स्वर रहित मन्त्र
आप इद्वा उ भेषजीरापो अमीवचातनीः । आप: सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥
स्वर रहित पद पाठआपः । इत् । वा । ऊँ इति । भेषजीः । आपः । अमीवऽचातनीः । आपः । सर्वस्य । भेषजीः । ताः । ते । कृण्वन्तु । भेषजम् ॥ १०.१३७.६
ऋग्वेद - मण्डल » 10; सूक्त » 137; मन्त्र » 6
अष्टक » 8; अध्याय » 7; वर्ग » 25; मन्त्र » 6
अष्टक » 8; अध्याय » 7; वर्ग » 25; मन्त्र » 6
पदार्थः -
(आपः-इत् वै-उ-भेषजीः) जलानि स्नानपानाभ्यां स्वास्थ्यकराणि सन्तु (आपः-अमीवचातनीः) जलानि रोगनाशकानि “चातयतिर्नाशने” [निरु० ६।३०] (आपः सर्वस्य भेषजीः) जलानि सर्वस्य रोगस्य भेषजानि (ताः ते भेषजं कृण्वन्तु) तानि जलानि तुभ्यं भेषजं स्वास्थ्यं कुर्वन्तु ॥६॥