ऋग्वेद - मण्डल 10/ सूक्त 137/ मन्त्र 5
ऋषिः - सप्त ऋषय एकर्चाः
देवता - विश्वेदेवा:
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
त्राय॑न्तामि॒ह दे॒वास्त्राय॑तां म॒रुतां॑ ग॒णः । त्राय॑न्तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥
स्वर सहित पद पाठत्राय॑न्ताम् । इ॒ह । दे॒वाः । त्राय॑ताम् । म॒रुता॑म् । ग॒णः । त्राय॑न्ताम् । विश्वा॑ । भू॒तानि॑ । यथा॑ । अ॒यम् । अ॒र॒पाः । अस॑त् ॥
स्वर रहित मन्त्र
त्रायन्तामिह देवास्त्रायतां मरुतां गणः । त्रायन्तां विश्वा भूतानि यथायमरपा असत् ॥
स्वर रहित पद पाठत्रायन्ताम् । इह । देवाः । त्रायताम् । मरुताम् । गणः । त्रायन्ताम् । विश्वा । भूतानि । यथा । अयम् । अरपाः । असत् ॥ १०.१३७.५
ऋग्वेद - मण्डल » 10; सूक्त » 137; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 25; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 25; मन्त्र » 5
पदार्थः -
(इह) अस्मिन् परिवारे (देवाः-त्रायन्ताम्) रश्मयो रुग्णं रक्षन्तु (मरुतां गणः-त्रायताम्) वायूनां गणोऽपि रक्षतु (विश्वा भूतानि त्रायन्ताम्) सर्वाणि भूतानि रक्षन्तु (यथा-अयम्-अरपाः-असत्) यथाऽयं रोगरहितो भवेत् ॥५॥