ऋग्वेद - मण्डल 10/ सूक्त 141/ मन्त्र 2
ऋषिः - अग्निस्तापसः
देवता - विश्वेदेवा:
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
प्र नो॑ यच्छत्वर्य॒मा प्र भग॒: प्र बृह॒स्पति॑: । प्र दे॒वाः प्रोत सू॒नृता॑ रा॒यो दे॒वी द॑दातु नः ॥
स्वर सहित पद पाठप्र । नः॒ । य॒च्छ॒तु॒ । अ॒र्य॒मा । प्र । भगः॑ । प्र । बृह॒स्पतिः॑ । प्र । दे॒वाः । प्र । उ॒त । सू॒नृता॑ । रा॒यः । दे॒वी । द॒दा॒तु॒ । नः॒ ॥
स्वर रहित मन्त्र
प्र नो यच्छत्वर्यमा प्र भग: प्र बृहस्पति: । प्र देवाः प्रोत सूनृता रायो देवी ददातु नः ॥
स्वर रहित पद पाठप्र । नः । यच्छतु । अर्यमा । प्र । भगः । प्र । बृहस्पतिः । प्र । देवाः । प्र । उत । सूनृता । रायः । देवी । ददातु । नः ॥ १०.१४१.२
ऋग्वेद - मण्डल » 10; सूक्त » 141; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 29; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 29; मन्त्र » 2
पदार्थः -
(अर्यमा नः प्र यच्छतु) न्यायाधीशः “अर्यमा न्यायाधीशः” [ऋ० १।२६।४ दयानन्दः] अस्मभ्यं न्यायं प्रददातु (भगः-प्र) भगमैश्वर्यं यस्य स भगः, ‘अकारो मत्वर्थीयः’ ऐश्वर्यवान्, ऐश्वर्यभागं प्रददातु (बृहस्पतिः प्र) बृहत्या वेदवाचः स्वामी वेदाचार्यः-वेदज्ञानं प्रददातु (देवाः-प्र) विद्वांसोऽस्मभ्यं शरणं प्रददतु (उत सूनृता देवी) अपि-च शोभनमन्नं यस्यां सा शोभनान्नवती साऽन्नव्यवस्थापिकासमितिः “सूनृतान्ननाम” [निघ० २।७] सूनृता “अन्नादिसमूहकरी राजनीति...” [ऋ० १।५१।२ दयानन्दः] (नः-रायः प्र ददातु) अस्मभ्यं धनान्नादीन् प्रददातु ॥२॥