Loading...
ऋग्वेद मण्डल - 10 के सूक्त 141 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 141/ मन्त्र 3
    ऋषिः - अग्निस्तापसः देवता - विश्वेदेवा: छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे । आ॒दि॒त्यान्विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥

    स्वर सहित पद पाठ

    सोम॑म् । राजा॑नम् । अव॑से । अ॒ग्निम् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ । आ॒दि॒त्यान् । विष्णु॑म् । सूर्य॑म् । ब्र॒ह्माण॑म् । च॒ । बृह॒स्पति॑म् ॥


    स्वर रहित मन्त्र

    सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे । आदित्यान्विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥

    स्वर रहित पद पाठ

    सोमम् । राजानम् । अवसे । अग्निम् । गीःऽभिः । हवामहे । आदित्यान् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहस्पतिम् ॥ १०.१४१.३

    ऋग्वेद - मण्डल » 10; सूक्त » 141; मन्त्र » 3
    अष्टक » 8; अध्याय » 7; वर्ग » 29; मन्त्र » 3

    पदार्थः -
    (सोमं राजानम्) सोम्यगुणवन्तं राजानम् (अग्निम्) अग्रणायकं (अवसे) रक्षायै (गीर्भिः-हवामहे) प्रशस्तवाग्भिरामन्त्रयामहे (आदित्यान्) अखण्डब्रह्मचर्यवतो ब्रह्मचारिणो बलवतः (विष्णुम्) सकलगुणव्यापिनम् “विष्णुः सर्वगुणेषु व्यापनशीलः” [ऋ० १।९०।९ दयानन्दः] (सूर्यम्) प्रेरकं विद्यासूर्यमाचार्यम् “सूर्येण प्रेरकेण” [यजु० ३७।१५ दयानन्दः] (ब्रह्माणम्) ब्रह्मज्ञानिनं (बृहस्पतिम्) वाग्रक्षकं वक्तारम्-आमन्त्रयामहे ॥३॥

    इस भाष्य को एडिट करें
    Top