ऋग्वेद - मण्डल 10/ सूक्त 141/ मन्त्र 5
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिन॑म् ॥
स्वर सहित पद पाठअ॒र्य॒मण॑म् । बृह॒स्पति॑म् । इन्द्र॑म् । दाना॑य । चो॒द॒य॒ । वात॑म् । विष्णु॑म् । सर॑स्वतीम् । स॒वि॒तार॑म् । च॒ । वा॒जिन॑म् ॥
स्वर रहित मन्त्र
अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥
स्वर रहित पद पाठअर्यमणम् । बृहस्पतिम् । इन्द्रम् । दानाय । चोदय । वातम् । विष्णुम् । सरस्वतीम् । सवितारम् । च । वाजिनम् ॥ १०.१४१.५
ऋग्वेद - मण्डल » 10; सूक्त » 141; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 29; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 29; मन्त्र » 5
पदार्थः -
(दानाय चोदय) हे अग्ने परमात्मन् ! “उत्तरमन्त्रात् ‘अग्ने’ पदं गृह्यते” स्वलाभदानाय प्रेरय यथा (अर्यमणम्) सूर्यम् “अर्यमाऽदित्यः” [निरु० ११।२३] प्रकाशदानाय प्रेरय (बृहस्पतिम्) ऊर्ध्वदिग्वर्तिनं विद्युद्रूपाग्निं-वृष्टिकर्त्तारम् “बृहस्पतिः-बृहतां पालको विद्युद्रूपोऽग्निः” [यजु० २८।१० दयानन्दः] वृष्टिदानाय प्रेरय (इन्द्रम्) आन्तरिक्ष्यवायुम् “यौ वै वायुः स इन्द्रः” [श० ४।१।३।९] विमानचालनार्थं गतिदानाय प्रेरय (वातम्) पार्थिववायुं श्वासप्रदानाय प्रेरय (विष्णुम्) पृथिव्यां व्यापकं पृथिव्याः पिण्डीभूतत्वस्य कारणमोषधिदानाय प्रेरय “ध्रुवा दिग्विष्णुरधिपति...वीरुध...इषवः” [अथर्व० ३।२७।५] उक्तत्वात् (सरस्वतीम्) नदीम् “सरस्वत्यो नद्यः” [निघ० १।१३] स्वजलप्रवाहदानाय प्रेरय (च) तथा (वाजिनं सवितारम्) बलवन्तं जीवनसञ्चारकर्त्तारं प्रातरुदयन्तं सूर्यं जीवनदानाय प्रेरय ॥५॥