Loading...
ऋग्वेद मण्डल - 10 के सूक्त 141 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 141/ मन्त्र 4
    ऋषिः - अग्निस्तापसः देवता - विश्वेदेवा: छन्दः - अनुष्टुप् स्वरः - गान्धारः

    इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ सु॒हवे॒ह ह॑वामहे । यथा॑ न॒: सर्व॒ इज्जन॒: संग॑त्यां सु॒मना॒ अस॑त् ॥

    स्वर सहित पद पाठ

    इ॒न्द्र॒वा॒यू इति॑ । बृह॒स्पति॑म् । सु॒ऽहवा॑ । इ॒ह । ह॒वा॒म॒हे॒ । यथा॑ । नः॒ । सर्वः॑ । इत् । जनः॑ । सम्ऽग॑त्याम् । सु॒ऽमनाः॑ । अस॑त् ॥


    स्वर रहित मन्त्र

    इन्द्रवायू बृहस्पतिं सुहवेह हवामहे । यथा न: सर्व इज्जन: संगत्यां सुमना असत् ॥

    स्वर रहित पद पाठ

    इन्द्रवायू इति । बृहस्पतिम् । सुऽहवा । इह । हवामहे । यथा । नः । सर्वः । इत् । जनः । सम्ऽगत्याम् । सुऽमनाः । असत् ॥ १०.१४१.४

    ऋग्वेद - मण्डल » 10; सूक्त » 141; मन्त्र » 4
    अष्टक » 8; अध्याय » 7; वर्ग » 29; मन्त्र » 4

    पदार्थः -
    (सुहव-इन्द्रवायू) सुह्वानौ सभासेनेशौ “इन्द्रवायू राजसेनेशौ” [ऋ० ४।४६।७ दयानन्दः] (बृहस्पतिम्) बृहतां पालकं वैश्यम् “बृहतां पालको वैश्यः” [यजु० १४।१९ दयानन्दः] (हवामहे) आह्वयाम आमन्त्रयामहे (यथा नः-सर्वः-इत्-जनः) यथा हि खल्वस्माकं सर्वो जनसमूहः ‘समूहप्रत्ययस्य लोपश्छान्दसः’ (सङ्गत्यां सुमनाः-असत्) परस्परसङ्गतौ प्रसन्नमनाः भवेत् “अस भुवि” [अदादि०] लेटि-अडागमश्च ॥४॥

    इस भाष्य को एडिट करें
    Top