ऋग्वेद - मण्डल 10/ सूक्त 142/ मन्त्र 1
अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्य॑म् । भ॒द्रं हि शर्म॑ त्रि॒वरू॑थ॒मस्ति॑ त आ॒रे हिंसा॑ना॒मप॑ दि॒द्युमा कृ॑धि ॥
स्वर सहित पद पाठअ॒यम् । अ॒ग्ने॒ । ज॒रि॒ता । त्वे इति॑ । अ॒भू॒त् । अपि॑ । सह॑सः । सू॒नो॒ इति॑ । न॒हि । अ॒न्यत् । अस्ति॑ । आप्य॑म् । भ॒द्रम् । हि । शर्म॑ । त्रि॒ऽवरू॑थम् । अस्ति॑ । ते॒ । आ॒रे । हिंसा॑नाम् । अप॑ । दि॒द्युम् । आ । कृ॒धि॒ ॥
स्वर रहित मन्त्र
अयमग्ने जरिता त्वे अभूदपि सहसः सूनो नह्य१न्यदस्त्याप्यम् । भद्रं हि शर्म त्रिवरूथमस्ति त आरे हिंसानामप दिद्युमा कृधि ॥
स्वर रहित पद पाठअयम् । अग्ने । जरिता । त्वे इति । अभूत् । अपि । सहसः । सूनो इति । नहि । अन्यत् । अस्ति । आप्यम् । भद्रम् । हि । शर्म । त्रिऽवरूथम् । अस्ति । ते । आरे । हिंसानाम् । अप । दिद्युम् । आ । कृधि ॥ १०.१४२.१
ऋग्वेद - मण्डल » 10; सूक्त » 142; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 30; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 30; मन्त्र » 1
विषयः - अत्र सूक्ते परमात्मा निजोपासकस्याज्ञानं छिनत्ति मोक्षसुखं प्रयच्छति, दुःखत्रयात् पृथक् करोति सदा रक्षतीत्यादयो विषयाः सन्ति।
पदार्थः -
(अग्ने) हे ज्ञानप्रकाशक परमात्मन् ! (अयं जरिता) एष स्तोता “जरिता स्तोतृनाम” [निघ० ३।१६] (त्वे-अपि-अभूत्) त्वयि त्वदन्तरेऽपि गतो निमग्नो जातः (सहसः सूनो) हे बलस्य प्रेरकः ! “य आत्मदा बलदा...” [यजु० २५।१३] (अन्यत्-आप्यम्-नहि-अस्ति) जरितुः स्तोतुर्ममाव्यत् खल्वाप्यं प्राप्तव्यं वस्तु त्वद्भिन्नं नास्ति (ते शर्म भद्रं-हि त्रिवरूथम्-अस्ति) तव शरणं गृहम् “शर्म गृहनाम” [निघ० ३।४] कल्याणरूपं दुःखत्रयस्य वारकमस्ति (हिंसानां-दिद्युम्-आरे-अप आ कृधि) हिंसन्तीति हिंसाः-अच् कर्तरि तेषां दीप्यमानं शस्त्रं दूरे “इषवः वै दिद्यवः” [श० ५।४।२।२] “दिद्युम्-प्रज्वलितं शस्त्रास्त्रम्” [ऋ० ७।५६।९ दयानन्दः] “आरे दूरनाम” [निघ० ३।२६] प्रक्षिप ॥१॥