ऋग्वेद - मण्डल 10/ सूक्त 143/ मन्त्र 1
त्यं चि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒ न यात॑वे । क॒क्षीव॑न्तं॒ यदी॒ पुना॒ रथं॒ न कृ॑णु॒थो नव॑म् ॥
स्वर सहित पद पाठत्यम् । चि॒त् । अत्रि॑म् । ऋ॒त॒ऽजुर॑म् । अर्थ॑म् । अश्व॑म् । न । यात॑वे । क॒क्षीव॑न्तम् । यदि॑ पुन॒रिति॑ । रथ॑म् । न । कृ॒णु॒थः । नव॑म् ॥
स्वर रहित मन्त्र
त्यं चिदत्रिमृतजुरमर्थमश्वं न यातवे । कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥
स्वर रहित पद पाठत्यम् । चित् । अत्रिम् । ऋतऽजुरम् । अर्थम् । अश्वम् । न । यातवे । कक्षीवन्तम् । यदि पुनरिति । रथम् । न । कृणुथः । नवम् ॥ १०.१४३.१
ऋग्वेद - मण्डल » 10; सूक्त » 143; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 1; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 1; मन्त्र » 1
विषयः - अस्मिन् सूक्तेऽध्यात्मविषयस्याध्यापकोपदेशकौ वासनावन्तं जनं वासनातः पृथक् कुरुतः, शरीरं केवलं न भोगसिद्धयेऽध्यात्म-सिद्धयेऽपीति ज्ञापयत इत्यादयो विषयाः सन्ति।
पदार्थः -
(त्यम्-ऋतजुरम्-अत्रिं चित्) हे-अश्विनौ ! “चतुर्थमन्त्रात्” अध्यापकोपदेशकौ “अश्विनौ-अध्यापकोपदेशकौ” [ऋ० ५।७८।३ दयानन्दः] ऋता प्राप्ता-जुर्जरा येन तं प्राप्तजरम् “जॄ वयोहानौ” [क्र्यादि०] ततो क्विप् ‘उत्वं छान्दसम्’ अत्तारं भोक्तारं जनम् “अत्रिः सुखानामत्ता-भोक्ता” [ऋ० १।१३९।९ दयानन्दः] “अदेस्त्रिनिश्च त्रिप्” [उणादि० ४।६८] इति अद धातोः-त्रिप् प्रत्ययः (अर्थं यातवे) अभीष्टं प्राप्तुम् “या धातोस्तुमर्थे तवेन् प्रत्ययः” “तुमर्थेसेऽसेन...तवेनः” [अष्टा० ३।४।९] इत्यनेन (कक्षीवन्तम्-अश्वं-न) कक्ष्यया बद्धमश्वमिव (यदि) यद्वा (रथं न) शिल्पिनौ रथं यथा (पुनः-नवं कृणुथः) पुनर्नवं कुरुथः स्वाध्यापनोपदेशाभ्याम् ॥१॥