ऋग्वेद - मण्डल 10/ सूक्त 144/ मन्त्र 3
ऋषिः - सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
घृषु॑: श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः । अव॑ दीधेदही॒शुव॑: ॥
स्वर सहित पद पाठघृषुः॑ । श्ये॒नाय॑ । कृत्व॑ने । आ॒सु । स्वासु॑ । वंस॑गः । अव॑ । दी॒धे॒त् । अ॒ही॒शुवः॑ ॥
स्वर रहित मन्त्र
घृषु: श्येनाय कृत्वन आसु स्वासु वंसगः । अव दीधेदहीशुव: ॥
स्वर रहित पद पाठघृषुः । श्येनाय । कृत्वने । आसु । स्वासु । वंसगः । अव । दीधेत् । अहीशुवः ॥ १०.१४४.३
ऋग्वेद - मण्डल » 10; सूक्त » 144; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 3
पदार्थः -
(कृत्वने श्येनाय) कर्त्तव्यपरायणाय “कृ धातोः” “अन्येभ्योऽपि दृश्यन्ते” [अष्टा० ३।२।७५] इति क्वनिप् प्रत्ययः, प्रशंसनीयगतिकायात्मने “श्येनः शंसनीयं गच्छति” [निरु० ४।२४] (घृषुः) घर्षयिता पराक्रमप्रदः (वंसगः) वननीयगमनः-इन्दुः-रेतः पदार्थः (आसु स्वासु) एतासु स्वकीयनाडीषु (अहीशुवः) निरन्तरं व्यापनशीलान् प्राणान् (अव दीधेत्) दीपयति ॥३॥