ऋग्वेद - मण्डल 10/ सूक्त 144/ मन्त्र 4
ऋषिः - सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः
देवता - इन्द्र:
छन्दः - भुरिग्गायत्री
स्वरः - षड्जः
यं सु॑प॒र्णः प॑रा॒वत॑: श्ये॒नस्य॑ पु॒त्र आभ॑रत् । श॒तच॑क्रं॒ यो॒३॒॑ऽह्यो॑ वर्त॒निः ॥
स्वर सहित पद पाठयम् । सु॒ऽप॒र्णः । प॒रा॒ऽवतः॑ । श्ये॒नस्य॑ । पु॒त्रः । आ । अभ॑रत् । श॒तऽच॑क्रम् । यः । अ॒ह्यः॑ । व॒र्त॒निः ॥
स्वर रहित मन्त्र
यं सुपर्णः परावत: श्येनस्य पुत्र आभरत् । शतचक्रं यो३ऽह्यो वर्तनिः ॥
स्वर रहित पद पाठयम् । सुऽपर्णः । पराऽवतः । श्येनस्य । पुत्रः । आ । अभरत् । शतऽचक्रम् । यः । अह्यः । वर्तनिः ॥ १०.१४४.४
ऋग्वेद - मण्डल » 10; सूक्त » 144; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 4
पदार्थः -
(यं शतचक्रं सुपर्णम्) यं शतवर्षायुष्करं सुष्ठु पालकं वीर्यपदार्थम् “वीर्यं वै सुपर्णः” [श० ६।७।२।६] (परावतः श्येनस्य पुत्रः) प्रेरितवतः “परावतः प्रेरितवतः” [निरु० ७।२६] प्रशंसनीयगतिकस्यात्मनः पुत्रवद्वर्तमानः शिवसङ्कल्पः (आ अभरत्) समन्ताद् धारयति (यः-अह्यः-वर्तनिः) योऽहेयोऽत्याज्यो ग्राह्य एव जीवनमार्गः ॥४॥