ऋग्वेद - मण्डल 10/ सूक्त 144/ मन्त्र 6
ऋषिः - सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः
देवता - इन्द्र:
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यज॑: । क्रत्वा॒ वयो॒ वि ता॒र्यायु॑: सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥
स्वर सहित पद पाठए॒व । तत् । इन्द्रः॑ । इन्दु॑ना । दे॒वेषु॑ । चि॒त् । धा॒र॒या॒ते॒ । महि॑ । त्यजः॑ । क्रत्वा॑ । वयः॑ । वि । ता॒रि॒ । आयुः॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । क्रत्वा॑ । अ॒यम् । अ॒स्मत् । आ । सु॒तः ॥
स्वर रहित मन्त्र
एवा तदिन्द्र इन्दुना देवेषु चिद्धारयाते महि त्यज: । क्रत्वा वयो वि तार्यायु: सुक्रतो क्रत्वायमस्मदा सुतः ॥
स्वर रहित पद पाठएव । तत् । इन्द्रः । इन्दुना । देवेषु । चित् । धारयाते । महि । त्यजः । क्रत्वा । वयः । वि । तारि । आयुः । सुक्रतो इति सुऽक्रतो । क्रत्वा । अयम् । अस्मत् । आ । सुतः ॥ १०.१४४.६
ऋग्वेद - मण्डल » 10; सूक्त » 144; मन्त्र » 6
अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 6
अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 6
पदार्थः -
(एव) एवम् (इन्द्रः) आत्मा (इन्दुना) वीर्यपदार्थेन (देवेषु चित्-महि त्यजः-धारयते) इन्द्रियेषु महत् तेजो धारयति (क्रत्वा) संयमकर्मणा (वयः-आयुः-वि तारि) जीवनमायुश्च विशेषेण वर्धय (सुक्रतो) यस्मै सुष्ठु क्रतुः कर्मकृतं तत्सम्बुद्धौ हे सुष्ठु संयमरूपकर्मणा प्राप्तवीर्यपदार्थ ! (अयम्) एष त्वम् (अस्मत्) अस्माभिः “सुपां सुलुक्०” [अष्टा० ७।१।३९] इति तृतीयायाः लुक् (क्रत्वा-आसुतः) कर्मणा समन्तात् प्राप्तोऽभीष्टं साधय ॥६॥