Loading...
ऋग्वेद मण्डल - 10 के सूक्त 144 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 144/ मन्त्र 5
    ऋषिः - सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः देवता - इन्द्र: छन्दः - सतोबृहती स्वरः - मध्यमः

    यं ते॑ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमन्ध॑सः । ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा॑गार ब॒न्धुता॑ ॥

    स्वर सहित पद पाठ

    यम् । ते॒ । श्ये॒नः । चारु॑म् । अ॒वृ॒कम् । प॒दा । आ । अभ॑रत् । अ॒रु॒णम् । मा॒नम् । अन्ध॑सः । ए॒ना । वयः॑ । वि । ता॒रि॒ । आयुः॑ । जी॒वसे॑ । ए॒ना । जा॒गा॒र॒ । ब॒न्धुता॑ ॥


    स्वर रहित मन्त्र

    यं ते श्येनश्चारुमवृकं पदाभरदरुणं मानमन्धसः । एना वयो वि तार्यायुर्जीवस एना जागार बन्धुता ॥

    स्वर रहित पद पाठ

    यम् । ते । श्येनः । चारुम् । अवृकम् । पदा । आ । अभरत् । अरुणम् । मानम् । अन्धसः । एना । वयः । वि । तारि । आयुः । जीवसे । एना । जागार । बन्धुता ॥ १०.१४४.५

    ऋग्वेद - मण्डल » 10; सूक्त » 144; मन्त्र » 5
    अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 5

    पदार्थः -
    (अन्धसः-मानम्-अरुणम्-चारुम्-अवृकम्) अन्नस्य “अन्धः-अन्ननाम” [निघ० २।७] निर्माणयोग्यमंशं तेजोरूपं सुन्दरमच्छेद्यं यं वीर्यपदार्थम्, (श्येनः पदा-आ अभरत्) शंसनीयगतिक आत्मा संयमरूपेण समन्ताद् धारयति (एना) एनेन-एतेन (वयः-जीवसे-आयुः-वि तारि) जीवनाय तेजः “वयः-तेजः” [ऋ० ५।१९।१ दयानन्दः] आयुश्च विशिष्टं प्राप्नोति (एना बन्धुता-जागार) एतेन परमात्मना सह बन्धुता जागर्ति ॥५॥

    इस भाष्य को एडिट करें
    Top