Loading...
ऋग्वेद मण्डल - 10 के सूक्त 145 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 145/ मन्त्र 2
    ऋषिः - इन्द्राणी देवता - उपनिषत्सपत्नीबाधनम् छन्दः - अनुष्टुप् स्वरः - गान्धारः

    उत्ता॑नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति । स॒पत्नीं॑ मे॒ परा॑ धम॒ पतिं॑ मे॒ केव॑लं कुरु ॥

    स्वर सहित पद पाठ

    उत्ता॑नऽपर्णे । सुऽभ॑गे । देव॑ऽजूते । सह॑स्वति । स॒ऽपत्नी॑म् । मे॒ । परा॑ । ध॒म॒ । पति॑म् । मे॒ । केव॑लम् । कु॒रु॒ ॥


    स्वर रहित मन्त्र

    उत्तानपर्णे सुभगे देवजूते सहस्वति । सपत्नीं मे परा धम पतिं मे केवलं कुरु ॥

    स्वर रहित पद पाठ

    उत्तानऽपर्णे । सुऽभगे । देवऽजूते । सहस्वति । सऽपत्नीम् । मे । परा । धम । पतिम् । मे । केवलम् । कुरु ॥ १०.१४५.२

    ऋग्वेद - मण्डल » 10; सूक्त » 145; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 3; मन्त्र » 2

    पदार्थः -
    (देवजूते) हे देवैर्जीवन्मुक्तैः प्रीते “देवजूतं देवप्रीतम्” [निरु० १०।२८] (सहस्वति) बलवति (सुभगे) सुभागनिमित्ते (उत्तानपर्णे) ऊर्ध्वं पर्णं पालनं यस्यास्तथाभूतेऽध्यात्मविद्ये तन्निमित्ते सोमौषधे ! वा (मे सपत्नीं पराधम) मम विरोधिनीं कामवासनां परागमय (मे पतिं केवलं कुरु) मदर्थं परमात्मानं पतिं नितान्तं कुरु ॥२॥

    इस भाष्य को एडिट करें
    Top