Loading...
ऋग्वेद मण्डल - 10 के सूक्त 145 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 145/ मन्त्र 3
    ऋषिः - इन्द्राणी देवता - उपनिषत्सपत्नीबाधनम् छन्दः - स्वराडार्च्यनुष्टुप् स्वरः - गान्धारः

    उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः । अथा॑ स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ॥

    स्वर सहित पद पाठ

    उत्ऽत॑रा । अ॒हम् । उ॒त्ऽत॒रे॒ । उ॒त्ऽत॒रा । इत् । उत्ऽत॑राभ्यः । अथ॑ । स॒ऽपत्नी॑ । या । मम॑ । अध॑रा । सा । अध॑राभ्यः ॥


    स्वर रहित मन्त्र

    उत्तराहमुत्तर उत्तरेदुत्तराभ्यः । अथा सपत्नी या ममाधरा साधराभ्यः ॥

    स्वर रहित पद पाठ

    उत्ऽतरा । अहम् । उत्ऽतरे । उत्ऽतरा । इत् । उत्ऽतराभ्यः । अथ । सऽपत्नी । या । मम । अधरा । सा । अधराभ्यः ॥ १०.१४५.३

    ऋग्वेद - मण्डल » 10; सूक्त » 145; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 3; मन्त्र » 3

    पदार्थः -
    (उत्तरे-उत्तरा) हे उत्कृष्टे सोमोषधे ! त्वामोषधिषूत्कृष्टा (अहम्-उत्तराभ्यः-उत्तरा) अहमध्यात्मविद्या सर्वाभ्य उत्कृष्टाभ्यो विद्याभ्य उत्कृष्टाऽस्मि (अथ) अथ च (या मम सपत्नी-अधरा) या मम सपत्नी कामवासना साऽधराऽस्ति (अधराभ्यः-अधरा) निकृष्टाभ्यो निकृष्टाऽस्ति ॥३॥

    इस भाष्य को एडिट करें
    Top