Loading...
ऋग्वेद मण्डल - 10 के सूक्त 145 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 145/ मन्त्र 6
    ऋषिः - इन्द्राणी देवता - उपनिषत्सपत्नीबाधनम् छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    उप॑ तेऽधां॒ सह॑मानाम॒भि त्वा॑धां॒ सही॑यसा । मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥

    स्वर सहित पद पाठ

    उप॑ । ते॒ । अ॒धा॒म् । सह॑मानाम् । अ॒भि । त्वा॒ । अ॒धा॒म् । सही॑यसा । माम् । अनु॑ । प्र । ते॒ । मनः॑ । व॒त्सम् । गौःऽइ॑व । धा॒व॒तु॒ । प॒था । वाःऽइ॑व । धा॒व॒तु॒ ॥


    स्वर रहित मन्त्र

    उप तेऽधां सहमानामभि त्वाधां सहीयसा । मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥

    स्वर रहित पद पाठ

    उप । ते । अधाम् । सहमानाम् । अभि । त्वा । अधाम् । सहीयसा । माम् । अनु । प्र । ते । मनः । वत्सम् । गौःऽइव । धावतु । पथा । वाःऽइव । धावतु ॥ १०.१४५.६

    ऋग्वेद - मण्डल » 10; सूक्त » 145; मन्त्र » 6
    अष्टक » 8; अध्याय » 8; वर्ग » 3; मन्त्र » 6

    पदार्थः -
    (ते) हे-अध्यात्मप्रिय जन ! तुभ्यं (सहमानाम्-उप-अधाम्) कामवासनाया-अभिभवित्रीं सोमौषधिमुपदधामि सहाय्यरूपेण समर्पयामि पानार्थं (त्वा) त्वां (सहीयसा-अभि अधाम्) बलवता सोमेन-अभिधारयामि-उपनिषदि खल्वध्यात्मविद्यायां स्वस्यां धारयामि (ते मनः) तव मनः (माम्-अनु प्र धावतु) मामनुसरन् प्रगच्छतु (गौः-इव वत्सम्) यथा गौर्वत्समनुप्रगच्छति (वाः-पथा धावतु) यथा जलं निम्नमार्गेण प्रगच्छति तथा मामुपनिषद-मध्यात्मविद्यां प्रगच्छ ॥६॥

    इस भाष्य को एडिट करें
    Top