ऋग्वेद - मण्डल 10/ सूक्त 145/ मन्त्र 5
ऋषिः - इन्द्राणी
देवता - उपनिषत्सपत्नीबाधनम्
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
अ॒हम॑स्मि॒ सह॑मा॒नाथ॒ त्वम॑सि सास॒हिः । उ॒भे सह॑स्वती भू॒त्वी स॒पत्नीं॑ मे सहावहै ॥
स्वर सहित पद पाठअ॒हम् । अ॒स्मि॒ । सह॑माना । अथ॑ । त्वम् । अ॒सि॒ । स॒स॒हिः । उ॒भे इति॑ । सह॑स्वती॒ इति॑ । भू॒त्वी । स॒ऽप्त्नी॑म् । मे॒ । स॒हा॒व॒है॒ ॥
स्वर रहित मन्त्र
अहमस्मि सहमानाथ त्वमसि सासहिः । उभे सहस्वती भूत्वी सपत्नीं मे सहावहै ॥
स्वर रहित पद पाठअहम् । अस्मि । सहमाना । अथ । त्वम् । असि । ससहिः । उभे इति । सहस्वती इति । भूत्वी । सऽप्त्नीम् । मे । सहावहै ॥ १०.१४५.५
ऋग्वेद - मण्डल » 10; सूक्त » 145; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 3; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 3; मन्त्र » 5
पदार्थः -
(अहम्-सहमाना-अस्मि) अहमुपनिषदध्यात्मविद्या कामवासना-मभिभवित्री खल्वस्मि (अथ त्वं सासहिः-असि) अथ च हे सोम ! त्वमत्यन्तमभिभविताऽसि (उभे सहस्वती भूत्वी) उभे सहस्वत्यौ बलवत्यौ भूत्वा (मे सपत्नीं सहावहै) मम विरोधिनीं कामवासनामभिभवावहै ॥५॥