Loading...
ऋग्वेद मण्डल - 10 के सूक्त 152 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 152/ मन्त्र 5
    ऋषिः - शासो भारद्वाजः देवता - इन्द्र: छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो व॒धम् । वि म॒न्योः शर्म॑ यच्छ॒ वरी॑यो यवया व॒धम् ॥

    स्वर सहित पद पाठ

    अप॑ । इ॒न्द्र॒ । द्वि॒ष॒तः । मनः॑ । अप॑ । जिज्या॑सतः । व॒धम् । वि । म॒न्योः । शर्म॑ । य॒च्छ॒ । वरी॑यः । य॒व॒य॒ । व॒धम् ॥


    स्वर रहित मन्त्र

    अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् । वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥

    स्वर रहित पद पाठ

    अप । इन्द्र । द्विषतः । मनः । अप । जिज्यासतः । वधम् । वि । मन्योः । शर्म । यच्छ । वरीयः । यवय । वधम् ॥ १०.१५२.५

    ऋग्वेद - मण्डल » 10; सूक्त » 152; मन्त्र » 5
    अष्टक » 8; अध्याय » 8; वर्ग » 10; मन्त्र » 5

    पदार्थः -
    (इन्द्र) राजन् ! (द्विषतः-मनः-अप) द्वेष्टुः शत्रोर्मनोऽपगमय भ्रान्तं कुरु (जिज्यासतः वधम्-अप) अस्माकं वयोहानिमिच्छतो जनस्य वधकप्रहारमपगमय (मन्योः-शर्म वरीयः-वि यच्छ) मन्युमतो-ऽभिमानिनो-उरुतरं शर्म सुखं विशेषेण देहि (वधं यवय) तस्य वधं-प्रहारमतिदूरं पृथक्कुरु ॥५॥

    इस भाष्य को एडिट करें
    Top