ऋग्वेद - मण्डल 10/ सूक्त 152/ मन्त्र 4
ऋषिः - शासो भारद्वाजः
देवता - इन्द्र:
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । यो अ॒स्माँ अ॑भि॒दास॒त्यध॑रं गमया॒ तम॑: ॥
स्वर सहित पद पाठवि । नः॒ । इ॒न्द्र॒ । मृधः॑ । ज॒हि॒ । नी॒चा । य॒च्छ॒ । पृ॒त॒न्य॒तः । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति । अध॑रम् । ग॒म॒य॒ । तमः॑ ॥
स्वर रहित मन्त्र
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्माँ अभिदासत्यधरं गमया तम: ॥
स्वर रहित पद पाठवि । नः । इन्द्र । मृधः । जहि । नीचा । यच्छ । पृतन्यतः । यः । अस्मान् । अभिऽदासति । अधरम् । गमय । तमः ॥ १०.१५२.४
ऋग्वेद - मण्डल » 10; सूक्त » 152; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 10; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 10; मन्त्र » 4
पदार्थः -
(इन्द्र) हे राजन् ! (नः-मृधः-वि जहि) अस्माकं संग्रामकारिणः शत्रून् विनाशय (पृतन्यतः नीचा यच्छ) संग्रामं कुर्वतो नीचैर्मुखीकृत्य वशे नय (यः-अस्मान्-अभिदासति) योऽस्मान् नाशयति (अधरं-तमः-गमय) नीचैरन्धकारं प्रापय ॥४॥