ऋग्वेद - मण्डल 10/ सूक्त 160/ मन्त्र 1
ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च । इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तास॑: ॥
स्वर सहित पद पाठती॒व्रस्य॑ । अ॒भिऽव॑यसः । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒ह । मु॒ञ्च॒ । इन्द्र॑ । मा । त्वा॒ । यज॑मानासः । अ॒न्ये । नि । री॒र॒म॒न् । तुभ्य॑म् । इ॒मे । सु॒तासः॑ ॥
स्वर रहित मन्त्र
तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च । इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतास: ॥
स्वर रहित पद पाठतीव्रस्य । अभिऽवयसः । अस्य । पाहि । सर्वऽरथा । वि । हरी इति । इह । मुञ्च । इन्द्र । मा । त्वा । यजमानासः । अन्ये । नि । रीरमन् । तुभ्यम् । इमे । सुतासः ॥ १०.१६०.१
ऋग्वेद - मण्डल » 10; सूक्त » 160; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 18; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 18; मन्त्र » 1
विषयः - अत्र सूक्ते राजप्रजाधर्म उच्यते, सर्वविधान्नधनानां पूर्तिं प्रजायै राजा कुर्यात्, ये च विद्वांसो राजानं सहयोगं दद्युस्तेभ्यश्चिरजीविकां दद्यादित्येवंविधा विषयाः सन्ति।
पदार्थः -
(अस्य तीव्रस्य-अभिवयसः पाहि) एतस्य प्रबलस्य, अभिगतानि प्राप्तानि विविधानि वयांसि खल्वन्नानि यस्मिन् राष्ट्रे तथाभूतस्येति सर्वत्र द्वितीयार्थे षष्ठी एतं प्रबलं प्राप्तविविधान्नकं राष्ट्रं राजन् रक्ष (सर्वरथा हरी-इह विमुञ्च) सर्वे रमणीयाः पदार्था याभ्यां तौ दुःखहारकौ बलपराक्रमौ “हरी बलपराक्रमौ” [यजु० ३।५२ दयानन्दः] अत्र राष्ट्रे विमुञ्च उपयुङ्क्ष्व (इह) अस्मिन राष्ट्रे (त्वा) त्वाम् (अन्ये यजमानासः निरीरमन्) अन्ये प्रजाजनाः यजमान प्रजसम् [तै० सं० ५।३।३।१] न रमन्तु न लोभयन्तु (तुम्यम्-इमे सुतासः) त्वदर्थमेते सर्वे प्रजाजनाः सज्जिताः सन्ति ॥१॥