ऋग्वेद - मण्डल 10/ सूक्त 164/ मन्त्र 2
भ॒द्रं वै वरं॑ वृणते भ॒द्रं यु॑ञ्जन्ति॒ दक्षि॑णम् । भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मन॑: ॥
स्वर सहित पद पाठभ॒द्रम् । वै । वर॑म् । वृ॒ण॒ते॒ । भ॒द्रम् । यु॒ञ्ज॒न्ति॒ । दक्षि॑णम् । भ॒द्रम् । वै॒व॒स्व॒ते । चक्षुः॑ । ब॒हु॒ऽत्रा । जीव॑तः । मनः॑ ॥
स्वर रहित मन्त्र
भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् । भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मन: ॥
स्वर रहित पद पाठभद्रम् । वै । वरम् । वृणते । भद्रम् । युञ्जन्ति । दक्षिणम् । भद्रम् । वैवस्वते । चक्षुः । बहुऽत्रा । जीवतः । मनः ॥ १०.१६४.२
ऋग्वेद - मण्डल » 10; सूक्त » 164; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 2
पदार्थः -
(भद्रं वरं वै वृणते) कल्याणकरं वरणीयं वस्तु हि जनाः खलु याचन्ते (भद्रं दक्षिणं युञ्जन्ति) कल्याणकरं शक्तिवैभवमात्मनि युक्तं कुर्वन्ति योजयन्ति-इति प्रवृत्तिर्विदुषां साधारणानां च (भद्रं वैवस्वते चक्षुः) कल्याणकरं दर्शनं कालाय समयाय रक्षन्ति यद् वयं चिरञ्जीवेमेत्याकाङ्क्षन्ति (बहुत्र जीवतः-मनः) बहुषु खल्ववसरेषु जीवनं धारयतो जनस्येव मम मनोऽस्तीति निश्चिनुयात् ॥२॥