Loading...
ऋग्वेद मण्डल - 10 के सूक्त 164 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 164/ मन्त्र 3
    ऋषिः - प्रचेताः देवता - दुःस्वप्नघ्नम् छन्दः - भुरिगार्चीत्रिष्टुप् स्वरः - धैवतः

    यदा॒शसा॑ नि॒:शसा॑भि॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्त॑: । अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥

    स्वर सहित पद पाठ

    यत् । आ॒ऽशसा॑ । निः॒ऽशसा॑ । अ॒भि॒ऽशसा॑ । उ॒प॒ऽआ॒रि॒म । जाग्र॑तः । यत् । स्व॒पन्तः॑ । अ॒ग्निः । विश्वा॑नि । अप॑ । दुः॒ऽकृ॒तानि॑ । अजु॑ष्टानि । आ॒रे । अ॒स्मत् । दा॒धा॒तु॒ ॥


    स्वर रहित मन्त्र

    यदाशसा नि:शसाभिशसोपारिम जाग्रतो यत्स्वपन्त: । अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥

    स्वर रहित पद पाठ

    यत् । आऽशसा । निःऽशसा । अभिऽशसा । उपऽआरिम । जाग्रतः । यत् । स्वपन्तः । अग्निः । विश्वानि । अप । दुःऽकृतानि । अजुष्टानि । आरे । अस्मत् । दाधातु ॥ १०.१६४.३

    ऋग्वेद - मण्डल » 10; सूक्त » 164; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 3

    पदार्थः -
    (यत्) यद् दुष्कर्म मानसम् (आशसा) आकाङ्क्षया (निः शसा) निः काङ्क्षया (अभि शसा) अभिगतकाङ्क्षया-वासनया (जाग्रतः) जाग्रतः सन्तः (यत्) यच्च (स्वपन्तः) स्वप्नं गृह्णन्तः (उपारिम) उपगच्छेम-प्राप्नुम (अग्निः) ज्ञानप्रकाशस्वरूपः परमात्मा (विश्वानि दुष्कृतानि-अजुष्टानि) सर्वाणि मानसिपापानि फलसेवनात् पूर्वाणि (अस्मत्) अस्मत्तः (आरे) दूरम् (अपदधातु) क्षिपतु ॥३॥

    इस भाष्य को एडिट करें
    Top