ऋग्वेद - मण्डल 10/ सूक्त 164/ मन्त्र 5
अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् । जा॒ग्र॒त्स्व॒प्नः सं॑क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ॥
स्वर सहित पद पाठअजै॑ष्म । अ॒द्य । अस॑नाम । च॒ । अभू॑म । अना॑गसः । व॒यम् । जा॒ग्र॒त्ऽस्व॒प्नः । स॒म्ऽक॒ल्पः । पा॒पः । यम् । द्वि॒ष्मः । तम् । सः । ऋ॒च्छ॒तु॒ । यः । नः॒ । द्वे॒ष्टि॒ । तम् । ऋ॒च्छ॒तु॒ ॥
स्वर रहित मन्त्र
अजैष्माद्यासनाम चाभूमानागसो वयम् । जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥
स्वर रहित पद पाठअजैष्म । अद्य । असनाम । च । अभूम । अनागसः । वयम् । जाग्रत्ऽस्वप्नः । सम्ऽकल्पः । पापः । यम् । द्विष्मः । तम् । सः । ऋच्छतु । यः । नः । द्वेष्टि । तम् । ऋच्छतु ॥ १०.१६४.५
ऋग्वेद - मण्डल » 10; सूक्त » 164; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 5
पदार्थः -
(वयम्-अनागसः-अभूम) वयं पापरहिताः-भवेम (अद्य) अद्यैव (अजैष्म) शत्रून् जितवन्तो भवेम (च) तथा (असनाम) सुख-सम्भाजिनो भवेम (जाग्रत्-स्वप्नः) जाग्रदवस्थाकः स्वप्नावस्थाकः (पापः सङ्कल्पः) पापकारी सङ्कल्पो यस्य जनस्य (यं द्विष्मः) यं वयं दुष्टं द्विष्मः (तं सः-ऋच्छतु) तं प्रति स गच्छतु (यः-नः-द्वेष्टि) यो दुष्टोऽस्मान् द्वेष्टि (तम्-ऋच्छतु) तं प्रति प्राप्नोतु ॥५॥